मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १६, ऋक् ६

संहिता

इ॒मे सोमा॑स॒ इन्द॑वः सु॒तासो॒ अधि॑ ब॒र्हिषि॑ ।
ताँ इ॑न्द्र॒ सह॑से पिब ॥

पदपाठः

इ॒मे । सोमा॑सः । इन्द॑वः । सु॒तासः॑ । अधि॑ । ब॒र्हिषि॑ ।
तान् । इ॒न्द्र॒ । सह॑से । पि॒ब॒ ॥

सायणभाष्यम्

इंदुशब्द उंदी क्लेदन इति धातोरुत्पन्नः । इंदवः क्लेदनयुक्ता इमे वेद्यामवस्थिताः सोमासस्तत्तत्पात्रगताः सोमा बर्हिषि यज्ञेऽध्याधिक्येन सुतासः । अभिषुताः । हे इंद्र सहसे बलार्थं तान् सोमान् पिब ॥ सोमासः । आज्जसेरसुगिति जुसोऽसुगागमः । इंदवः । उक्तम् । सुतासः । पूर्ववदसुक् । संहितायां प्रकृत्यांतःपादमव्यपर इति प्रकृतिभावात्परपूर्वत्वं न भवति । बर्हिषि । बृंहेर्नलोपश्च (उ २-११०) इतीस् । प्रत्ययस्वरः । ता इंद्रेत्यत्र दीर्घादट समानपाद इतिरुत्वम् । यत्वयलोपौ । अनुनासिकः । सहसे । षह मर्षणे । असुनंतो नित्त्वादाद्युदात्तः ॥ ६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३१