मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १६, ऋक् ८

संहिता

विश्व॒मित्सव॑नं सु॒तमिन्द्रो॒ मदा॑य गच्छति ।
वृ॒त्र॒हा सोम॑पीतये ॥

पदपाठः

विश्व॑म् । इत् । सव॑नम् । सु॒तम् । इन्द्रः॑ । मदा॑य । ग॒च्छ॒ति॒ ।
वृ॒त्र॒ऽहा । सोम॑ऽपीतये ॥

सायणभाष्यम्

वृत्रहा शत्रुघातक इंद्रः सोमपीतये सोमपानाय मदाय तत्पानजन्यहर्षाय च विश्वमित्सर्वमपि सुतमभिषुतसोमयुक्तं सवनं प्रातःसवनादिरूपं कर्म गच्छति ॥ विश्वम् । अशिप्रुषीत्यादिना क्वन् । नित्त्वादाद्युदात्तः । सवनं सुतम् । पूर्ववत् । मदाय । मदोऽनुपसर्गे (पा ३-३-६७) इत्यप्प्रत्ययः । पित्त्वाद्धातुस्वरः । गच्छति । इषुगमियमां छः । वृत्रहा । वृत्रं हतवान् । ब्रह्मभ्रूणवृत्रेषु क्विप् (पा ३-२-८७) इन्हन्नित्यादिना निवृत्तं दीर्घत्वं सौ च । पा ६-४-१२, १३ । इति प्रतिप्रसवाद्भवति । कृदुत्तरपदप्रकृतिस्वरत्वम् । सोमपीतये । व्यधिकरणबहुव्रीहिरित्युक्तम् । तत्पुरुषे वा दासीभारादित्वात् (पा ६-२-४२) पूर्वपदप्रकृतिस्वरत्वं ॥ ८ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३१