मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १६, ऋक् ९

संहिता

सेमं न॒ः काम॒मा पृ॑ण॒ गोभि॒रश्वै॑ः शतक्रतो ।
स्तवा॑म त्वा स्वा॒ध्य॑ः ॥

पदपाठः

सः । इ॒मम् । नः॒ । काम॑म् । आ । पृ॒ण॒ । गोभिः॑ । अश्वैः॑ । श॒त॒क्र॒तो॒ इति॑ शतऽक्रतो ।
स्तवा॑म । त्वा॒ । सु॒ऽआ॒ध्यः॑ ॥

सायणभाष्यम्

हे शतक्रतो स त्वं नोऽस्मदीयमिमं कामं काम्यमानं फलं गोभिरश्वैश्च सहा पृण । सर्वतः पूरय । वयमपि स्वाध्यः सुष्ठु सर्वतो ध्यानयुक्ताः संतस्त्वात्वां स्तवाम ॥ सेमम् । संहितायां सोऽचि लोपे चेत्पादपूरणमिति सुलोपः । कामम् । कमेर्घञि कर्षात्वतो घञोंऽत उदात्तः (पा ६-१-१५९) इत्यंतोदात्तत्वे प्राप्ते वृषादिषु पाठादाद्युदात्तत्वम् । पृण । पृण प्रीणने । लोटः सेर्हिः । तुदादिभ्यः शः । तस्य ङित्त्वाद्गुाभावः । अतोहेरिति हेर्लुक् । गोभिः । सावेकाच इति प्राप्तं विभक्तेरुदात्तत्वं न गोश्वन्साववर्णेति प्रतिषिध्यते । अश्वैः । क्वनंत इत्युक्तम् । असामर्थ्यान्न परांगवद्भावः । स्तवाम । ष्वुञ् स्तुतौ । धात्वादेः षः सः । लोडुत्तमबहुवचनस्य लोटो लङ्वदिति लङ्वद्भावान्नित्यं ङितः (पा ३-४-९९) इति सकारस्य लोपः । आडुत्तमस्य पिच्च (पा ३-४-९२) इत्याडागमः । प्रत्ययस्य पित्त्वादनुदात्तत्वम् । धातुस्वर एव । स्वाध्यः । ध्यै चिंतायाम् । स्वाङोरुपसर्गयोः प्राक्प्रयोगः । अन्येभ्योऽपि दृश्यते (पा ३-२-१७८) इति क्विप् । दृशिग्रहणस्य विध्यंतरोपसंग्रहणार्थत्वादत्र संप्रसारणे सति परपूर्वत्वम् । हल इति दीर्घः । जस्येरनेकाचः (पा ६-४-८२) इति यणादेशः । गतिकारकोपपदात्कृदित्युत्तरपदप्रकृतिस्वरत्वम् । उदात्तयणो हल्पूर्वादिति जस उदात्तत्वं न भवति । तत्रासर्वनामस्थानमित्यनुवृत्ते । अत उदात्तस्वरितयोर्यणः स्वरितोऽनुदात्तस्येति स्वरितत्वमेव भवति ॥ ३१ ॥ ९ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३१