मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १७, ऋक् १

संहिता

इन्द्रा॒वरु॑णयोर॒हं स॒म्राजो॒रव॒ आ वृ॑णे ।
ता नो॑ मृळात ई॒दृशे॑ ॥

पदपाठः

इन्द्रा॒वरु॑णयोः । अ॒हम् । स॒म्ऽराजोः॑ । अवः॑ । आ । वृ॒णे॒ ।
ता । नः॒ । मृ॒ळा॒तः॒ । ई॒दृशे॑ ॥

सायणभाष्यम्

अहमनुष्ठाता सम्राजोः समीचीनराज्योपेतयोः सम्यग्दीप्यमानयोर्वेंद्रावरुणयोर्देवयोः संबंध्यवो रक्षणमा वृणे । सर्वतः प्रार्थये । ता तौ देवावीदृशे एवंविधेऽस्मदीयवरणे निमित्तभूते सति मृळातः । अस्मान्सुखयतः ॥ इंद्रशब्दो रन्प्रत्ययांतः । वरुणशब्द उनन्प्रत्ययांतः । उभौ नित्त्वादाद्युदात्तौ । समासे देवताद्वंद्वे चेति पूर्वपदस्यानङादेशः । उभे युगपदित्यनुपृत्तौ देवताद्वंद्वे चेति युगपदुभयपद प्रकृतिस्वरत्वम् । सम्राजोः । राजृ दीप्तौ । सत्सूद्विषेत्यादिना क्विप् । समो मोऽनुस्वारः (पा ८-३-२३) इत्यनुस्वारे प्राप्ते मोराजि समः क्वौ (पा ८-३-२५) इति मकारादेशः । कृदुत्तरपदप्रकृतिस्वरत्वम् । कर्तृकर्मणोः कृति (पा २-३-६५) इति कर्तरि षष्ठी । अवः । अव रक्षणादिषु । भावेऽसुन् नित्त्वादाद्युदात्तः । ता । सुपां सुलुगित्यादिना द्विवचनस्य डादेशः । टलोपे विभक्तेरुदात्तनिवृत्तिस्वरः । मृळातः । मृड सुखने । प्रार्थनायां लिङर्थे लेट् । द्विवचनं तस् । लेटोऽडाटावित्याडागमः । तुदादिभ्यः शः । ङित्त्वाल्लघूपधगुणाभावः । ईदृशे । त्यदादिषु दृशोऽनालोचने कञ् च (पा ३-२-६०) इतीदंशब्द उपपदे दृशेः कञ् । उपपदसमास इदंकिमोरीश्की (पा ६-३-९०) इतीदम ईश् । शित्त्वात्सर्वादेशः । कञः कित्त्वाद्गुणाभावः । ञित्त्वादुत्तरपदस्याद्युदात्तत्वम् । उपपदसमासे कृदुत्तरपदप्रकृतिस्वरत्वेन तदेव शिष्यते ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३२