मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १७, ऋक् २

संहिता

गन्ता॑रा॒ हि स्थोऽव॑से॒ हवं॒ विप्र॑स्य॒ माव॑तः ।
ध॒र्तारा॑ चर्षणी॒नाम् ॥

पदपाठः

गन्ता॑रा । हि । स्थः । अव॑से । हव॑म् । विप्र॑स्य । माऽव॑तः ।
ध॒र्तारा॑ । च॒र्ष॒णी॒नाम् ॥

सायणभाष्यम्

हे इंद्रावरुणौ अवसेऽवितुमनुष्ठातारं रक्षितुं मावतो मद्विधस्य विप्रस्य ब्राह्मणर्त्विजो हवमाह्वानं गंतारौ स्थो हि । प्राप्ति शीलौ भवथः खलु । कीदृशौ । चर्षणीनां मनुष्याणां धर्तारौ योगक्षेमसंपादनेन धारयितारौ ॥ गंतारा । गमेस्ताच्छील्ये तृन् । द्विवचनस्य सुपां सुलुगित्यादिनाकारादेशः । ऋदृशोऽङि गुणः (पा ७-४-१६) अप्तृन्नित्यादिनोपधादीर्घत्वम् । तृमो नित्त्वादाद्युदात्तत्वम् । स्थः । अस भुवि । लङ् मध्यमपुरुषद्विवचनं थस् । अदिप्रभृतिभ्यः शप इति शपो लुक् हि चेति निघातप्रतिषेधः । अवसे । अव रक्षणे । तुमर्थे सेसेन्नित्यसेन् (पा ३-४-९) नित्त्वादाद्युदात्तः । हवम् । ह्वेञो बहुलं छंदसीत्यनैमित्तिके संप्रसारणे परपूर्वत्वे च ऋूदोरबित्यप् । गुणावादेशौ । अपः पित्त्वादनुदात्तत्वम् । धातुस्वर एव । विप्रस्य । डुवर् बीजतंतुसंताने । अस्य ऋज्रेंद्रेत्यादिना रन् निपातितः । नित्त्वादाद्युदात्तः । मावतः । वतुप्प्रकरणे युष्मदस्मद्भ्यां छंदसि सादृश्य उपसंख्यानम् । पा ५-२-३९-१ । वतुप् । प्रत्ययोत्तरपदयोरस्मदो मपर्यंतस्य मादेशः (पा ७-२-९८) आ सर्वनाम्नः (पा ६-३-९१) इति दकारस्याकारः । सवर्णदीर्घः मतुपः पित्त्वादनुदात्तत्वम् । प्रातिपदिकांतोदात्तत्वे स एव शिष्यते । धर्तारा । धृञ् धारणे । ण्वुल्तृचौ (पा ३-१-१३३) इति तृच् । एकाच उपदेश इतीट् प्रतिषेधः गुणो रपरत्वम् । अप्तृन्नित्यादिनोपधादीर्घः । सुपां सुलुगित्याकारः । तृचश्चित्त्वा दंतोदात्तत्वम् । चर्षणीनाम् । कृषेरादेश्चचः (उ २-१०५) इत्यनिप्रत्ययः । तत्संनि योगेन ककारस्य चकारः । प्रत्ययाद्युदात्तत्वं बाधित्वा छांदसमंतोदात्तत्वम् । अत एव नामन्यतरस्यामिति विभक्तेरुदात्तत्वम् । तत्र हि मतुपि यो ह्रस्वांतस्तत उत्तरस्य नाम उदात्तत्वमिति व्याख्यातं ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३२