मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १७, ऋक् ४

संहिता

यु॒वाकु॒ हि शची॑नां यु॒वाकु॑ सुमती॒नाम् ।
भू॒याम॑ वाज॒दाव्ना॑म् ॥

पदपाठः

यु॒वाकु॑ । हि । शची॑नाम् । यु॒वाकु॑ । सु॒ऽम॒ती॒नाम् ।
भू॒याम॑ । वा॒ज॒दाव्ना॑म् ॥

सायणभाष्यम्

हि यस्मात्कारणाच्छचीनामस्मदीयकर्मणां संबंधि सोमरूपं हर्वियु वाकु वसतीवर्येकधनात्मकैरुदकैः पयः सक्त्वादिद्रव्यांतरैश्च मिश्रितम् । तथा सुमतीनां शोभनबुद्धियुक्तानामृत्विजां स्तोत्ररूपं वचनरूपि युवाकु नानाविधैः स्तुत्यगुर्णैर्मिश्रितम् । तस्मात्कारणात् हे इंद्रावरुणौ तथाविधं हविः स्वीकुर्वतोर्युवयोः प्रसादाद्वयं वाजदान्नामन्नप्रदानां पुरुषाणां मध्ये मुखा भूयाम । भवेम । अपोऽप्न इत्यादिषु षड्विंशतिसंख्याकेषु कर्मनामसु शचीशमीति पठितं ॥ युवाकु । यु मिश्रणे । कटकुषिभ्यां काकुः (उ ३-७७) इत्यत्र बाहुलकाद्यौतेरपि काकुः प्रत्ययः । कित्वेन गुणाभावादुकारस्योवङादेशः । प्रत्ययस्वरेण मध्योदात्तत्वम् । शचीशब्दः केषांचिन्मते शार्ङ्गरवादिः । ङीनंतो नित्त्वादाद्युदात्तः (पा ४-१-७३) इत्युभे वनस्पत्यादिषु युगपदित्यत्र । का ६-२-१४० । वृत्तिकृतोक्तम् । सुमतीनाम् । विद्याम सुमतीनाम् । ऋग्वे १-४-३ । इत्यत्रोक्तम् । भूयाम । प्रार्थनायां लिङ् । उत्तमबहुवचने नित्यं ङित इति सकारलोपः । यासुट् परस्मैपदेषूदात्तो ङिच्च (पा ३-४-१०३) इत्यादात्तो यासुडागमः । लिङः सलोपोऽनंत्यस्य (पा ७-२-७९) इति सकार लोपः । बहुलं छंदसीति शपो लुक् । सति शिष्टत्वाद्यासुडुदात्त एव शिष्यते । वाजदाव्नाम् । वाजं ददातीति वाजदावानः । आतो मनि न्नित्यादिन् वनिप् । तस्य पित्त्वाद्धातुस्वर एव शिष्यते । समासे कृदुत्तरपदप्रकृतिस्वरत्वेन स एव शिष्यते । आम्यल्लोपोऽनः (पा ६-४-१३४) इत्यकारलोपः । तस्याचः परस्मिन्निति स्थानिवद्भावाल्लोपो व्योर्वलीति वकारलोपो न भवति ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३२