मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १७, ऋक् ५

संहिता

इन्द्र॑ः सहस्र॒दाव्नां॒ वरु॑ण॒ः शंस्या॑नाम् ।
क्रतु॑र्भवत्यु॒क्थ्य॑ः ॥

पदपाठः

इन्द्रः॑ । स॒ह॒स्र॒ऽदाव्ना॑म् । वरु॑णः । शंस्या॑नाम् ।
क्रतुः॑ । भ॒व॒ति॒ । उ॒क्थ्यः॑ ॥

सायणभाष्यम्

अयमिंद्रः सहस्रदाव्नां सहस्रसंख्या कधनप्रदानां मध्ये क्रतुर्धनदानस्य कर्ता भवति । प्रभूतं ददातीत्यर्थः । तथा वरुणः शंस्यानां स्तुत्यानां मध्य उक्ध्यः स्तुत्यो भवति । अतिशयेन स्तुत्य इत्यर्थः ॥ वरुणः उनन्प्रत्ययो नित्त्वादा । द्युदात्तः । शंस्यानाम् । शन्सु स्तुतौ । ऋहलोर्ण्यत् । तिस्स्वरित मिति प्राप्त ईडमद वृशंसदुहां ण्यत इत्याद्युदात्तः । क्रतुः । कृञः कतुः (उ १-७८) इति कतुः । कित्त्वाद्गुणाभावे यणादेशः । प्रत्ययस्वरेणाद्युदात्तः । उक्थ्यः । उक्ध्यं शस्त्रम् । तेन स्तुत्यत्वेन तत्र भव उक्थ्यः । भवे छंदसि (पा ४-४-११०) इति यत् । यस्येति लोपः । अत्र तित्स्वरितमित्येतद्बाधित्वा तीर्थ्याय कूप्यायेत्यादिवत् द्व्यच् त्वाद्यतोऽनाव इति प्राप्तमाद्युदात्तत्वम् । सर्वे विधयश्छंदसि विकल्प्यंत इति न क्रियते । ननु यस्येति लोपात्प्रागेव तित्स्विरितत्वमस्तु न हि तदा यतोऽनाव इत्येतदस्तिद्व्यच् त्वाभावात् । अत एव ह्यूर्म्याय च सूर्म्याय चेत्यादौ स्वरितत्वं दृश्यते । न च परत्वान्नित्यत्वाच्च यस्येति लोपेन प्रथमतो भाव्यमिति वाच्यम् । प्रकृतिप्रत्ययाश्रयाद्बहिरंगाद्यस्येति लोपात्प्रत्ययमात्राश्रयतयांतरंगत्वेन तित्स्वरितमित्येतस्य प्राबल्यात् । अत ऊर्म्यायेत्यादिवदुक्थ्य इत्यत्रापि लक्षणत एव स्वरितत्वं भविष्यतीति । किं छांदस्येन । यत्र हि लोपमंतरेणैव द्व्यच् त्वं तत्र यतोऽनाव इत्येतद्भवति । यथा चीयं येयमिति । लोपनिबंधनद्व्यच् त्वप्रदेशेषु तु स्वरितेनैव भवितव्यमिति । एवं तर्हि तीर्थ्याय कूप्यायेत्यादौ यदाद्युदात्तत्वं तदेव छांदसमस्तु अथात्र तु वर्णादांगं बलीयः । परि ५५ । इत्यंतरंगत्वेऽपि स्वरितत्वं बाधित्वा लोप एव भविष्यति । तर्ह्युक्थ्य ऊर्म्याय सूर्म्यायेत्यादौ च छांदस्यमस्तु । सर्वथैकत्र छांदस्यान्न मुच्यते ॥ ३२ ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३२