मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १७, ऋक् ७

संहिता

इन्द्रा॑वरुण वाम॒हं हु॒वे चि॒त्राय॒ राध॑से ।
अ॒स्मान्त्सु जि॒ग्युष॑स्कृतम् ॥

पदपाठः

इन्द्रा॑वरुणा । वा॒म् । अ॒हम् । हु॒वे । चि॒त्राय॑ । राध॑से ।
अ॒स्मान् । सु । जि॒ग्युषः॑ । कृ॒त॒म् ॥

सायणभाष्यम्

इंद्रावरुणा हे इंद्रावरुणौ वां युवामुभावहं हुवे । आह्वयामि । किमर्थम् । चित्राय मणिमुक्तादिरूपेण विविधाय राधसे धनाय । तत आहुतौ युवामस्माननुष्ठातृन् सु जिग्युषः । शत्रुविषये सुष्ठु जययुक्तान् कृतं कुरुतं ॥ इंद्रावरुणा । सुपां सुलुगित्यादिना संबोधनस्याकारः । देवताद्वंद्वे चेति पूर्वपदस्यानङ् । आमंत्रिताद्युदात्तत्वम् । संहितायां छांदसं ह्रस्वत्वम् । हुवे । हूयतेर्लुङुत्तमैकवचनमिट् । शप इत्यनुवृत्तौ बहुलं छंदसीति लुक् । हू इत्यनुवृत्तौ बहुलं छंदसीति संप्रसारणं परपूर्वत्वम् । अचि श्नुधात्वित्यादिनोवङ् (पा ६-४-७७) न च हुश्नुवोरित्यादिना (पा ६-४-८७) यणादेशः । जुहोतेरेव हि प्रतिपदोक्तस्य तत् । न पुनरस्य लाक्षणिकत्वात् । इटः प्रत्ययस्वरेणोदात्तत्वम् । पादादित्वान्ननिघातः । राधसे । असुन् । नित्त्वादाद्युदात्तत्वम् । अस्मान् । शसि द्वितीयायां च (पा ७-२-८७) इत्यात्वम् । शसो नः (पा ७-१-२९) इति नत्वम् । जिग्युषः । जि जये । लिटः क्वसुश्चेति क्वसुः । द्विर्भावः । सन् लिटोर्जेः पा ७-३-५७ । इति द्वितीयस्य कुत्वम् । क्वसोः कित्त्वाद्गुणाभावः क्रादिनियमात्प्राप्तस्येटो वस्वेकाचाद्घसामिति नियमेन निवृत्तिः । द्वितीया बहुवचनं शस् । भसंज्ञायां वसोः संप्रसारणिति संप्रसारणम् । परपूर्वत्वम् । एरनेकाच इति यणादेशः । शासिवसिघसीनां चेति षत्वम् । प्रत्ययस्वरेणोकार उदात्तः । कृतम् । डुकृञ् करणे । लोण्मध्यमद्विवचनस्य लङ्वद्भावात्तमादेशः । शपो बहुलं छंदसीति लुक् । तिङ्ङतिङ इति निघातः ॥ ७ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३३