मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १७, ऋक् ८

संहिता

इन्द्रा॑वरुण॒ नू नु वां॒ सिषा॑सन्तीषु धी॒ष्वा ।
अ॒स्मभ्यं॒ शर्म॑ यच्छतम् ॥

पदपाठः

इन्द्रा॑वरुणा । नु । नु । वा॒म् । सिसा॑सन्तीषु । धी॒षु । आ ।
अ॒स्मभ्य॑म् । शर्म॑ । य॒च्छ॒त॒म् ॥

सायणभाष्यम्

इंद्रावरुणा हे इंद्रावरुणौ धीष्वस्मदीयबुद्धिषु वां युवां सिषासंतीषु सनितुं संभक्तुं सम्यक् सेवितुमिच्छंतीषु तदानीमासमंतादस्मभ्यं शर्म सुखं नू नु अतिशयेन क्षिप्रं यच्छतम् । दत्तम् । षड्विंशतिसंख्याकेषु क्षिप्रनामसुनु मक्ष्विति पठितम् । तस्य द्विरावृत्तिबलादतिशयो लभ्यते ॥ इंद्रावरुणा । उक्तम् । नूनु । ऋचि तुनुघमक्षुतङ्कुत्रोरुष्याणाम् । पा । ६-३-१३३ । इति पूर्वस्य दीर्घत्वम् । सिषासंतीषु । वन षण संभक्तौ । धात्वादेः षः सः । इच्छायां सन् । द्विर्भावो हलादिशेषः । सन्यत इतीत्वम् । आदेशप्रत्यययोरिति षत्वम् । सनीवंतेत्यादिना (पा ६-४-४२) इति नकारस्याकारः । उपरि लटः शतृ । कर्तरि शप् । उगितश्चेति ङीप् । शप् श्शनोर्नित्यम् (पा ७-१-८१) इति नुम् । ङीपः शपश्च पित्त्वाच्छतुश्च लसार्वधातुकत्वेनानुदात्तत्वम् । सनो नित्त्वादाद्शुदात्तत्वम् । तदेव शिष्यते । धीषु । सावेकाच इति विभक्तेरुदात्तत्वम् । अस्मभ्यम् । अस्मभ्यमप्रतिष्कुतः । ऋग्वे १-७-६ । इत्य त्रोक्तम् । यच्चतम् । दाण् दाने । शपि पाघ्रेत्यादिना यच्छादेशः ॥ ८ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३३