मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १७, ऋक् ९

संहिता

प्र वा॑मश्नोतु सुष्टु॒तिरिन्द्रा॑वरुण॒ यां हु॒वे ।
यामृ॒धाथे॑ स॒धस्तु॑तिम् ॥

पदपाठः

प्र । वा॒म् । अ॒श्नो॒तु॒ । सुऽस्तु॒तिः । इन्द्रा॑वरुणा । याम् । हु॒वे ।
याम् । ऋ॒धाथे॑ इति॑ । स॒धऽस्तु॑तिम् ॥

सायणभाष्यम्

इंद्रावरुणा हे इंद्रावरुणौ यामस्मत्कर्तृकां शोभनस्तुतिं प्रति हुवे युवामुभावाह्वयामि । किंच सधस्तुतिं युवयोरुभयोः साहित्येन क्रियमाणायाः । स्तवक्रियाया यां सुष्टुतिं प्रतिलभ्य ऋधाथे युवां वर्धाथे । तादृशी सुष्टुतिः शोभनस्तुतिहेतुभूत ऋक्समूहो वामश्नोतु । युवा व्याप्नोतु ॥ अश्नोतु । अशू व्याप्तौ । लोटो व्यत्ययेन तिप् । स्वादिभ्यः श्नुः । सुष्टुतिः न विंधे अस्य सुष्टुतिम् । ऋग्वे १-७-७ । इत्यत्रोक्तम् । इंद्रावरुणा । हुवे । उक्ते । अत्र तु यद्वृत्तयोगान्न निघातः । ऋधाथे । ऋधु वृद्धौ । लट् । व्यत्ययेनात्मनेपदम् । मध्यमद्विवचने श्नोर्बहुलं छंदसीति लुक् । प्रत्ययस्वरेणाकार उदात्तः । यच्छब्गयोगान्न निघातः । सधस्तुतिम् । सह स्तुतिर्यस्यां सुष्टुतौ सा सधस्तुतिः । अत्र सुष्टुतिरित्यन्यपदार्थे स्तुतिशब्दस्य स्तूयतेऽनयति करणसाधनत्वेन ऋक्परत्वेऽयं स्तुतिशब्दो भावसाधनतया स्तवनक्रियापरः । तस्मिन्भावसाधनत्वेन क्रियापरेऽयं करणसाधनतया ऋक्पर इति समस्यमानपदार्थादन्यः सहेत्यत्र हकारस्य व्यत्ययेन धकारः । सहशब्द एवमादित्वादंतोदात्तः । बहुव्रीहित्वेन पूर्वपदप्रकृतिस्वरत्वं ॥ ३३ ॥ ४ ॥ ९ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३३