मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १८, ऋक् १

संहिता

सो॒मानं॒ स्वर॑णं कृणु॒हि ब्र॑ह्मणस्पते ।
क॒क्षीव॑न्तं॒ य औ॑शि॒जः ॥

पदपाठः

सो॒मान॑म् । स्वर॑णम् । कृ॒णु॒हि । ब्र॒ह्म॒णः॒ । प॒ते॒ ।
क॒क्षीव॑न्तम् । यः । औ॒शि॒जः ॥

सायणभाष्यम्

हे ब्रह्मणस्पते एतन्नामकदेव सोमानमभिषवस्य कर्तारं मामनुष्ठातारं स्वरणं देवेषु प्रकाशनवंतं कृणुहि । कुरु । अत्र दृष्टांतः । कक्षीवंतमेतन्नामकमृषिम् । इवशब्दोऽत्राध्याहर्तव्यः । कक्षीवान्यथा देवेषु प्रसिद्धस्तद्वदित्यर्थः । यः कक्षीवानृषिरौशिज उशिजः पुत्रः । तमिवेति पूर्वत्र योजना । कक्षीवतोऽनुष्ठातृषु मुनिषु प्रसिद्धस्तैत्तिरीयैराम्नायते । एवं वै पर आट् णारः कक्षीवा औशिजो वीतहव्यः श्रायसस्त्रसदस्युः पौरुकुत्स्यः प्रजाकामा अचिन्वत । तै । सम् । ५-६-५-३ । इति ऋगंतरेऽप्यृषित्वकथनेनानुष्ठातृत्वप्रसिद्धिः सूच्यते । अहं कक्षीवा ऋषिरस्मि विप्रः । ऋग्वे । ४-२६-१ । इति । तस्मादस्यानुष्ठातारं प्रति दृष्टांतत्वं युक्तम् । सोऽयं मंत्रो यास्केनैवं व्याख्यातः । सोमानं सोतारं प्रकाशनवंतं कुरु ब्रह्मणस्पते कक्षीवंतमिव य औशिजः । कक्षीवान्कक्ष्यावानौशिज उशिजः पुत्र उशिग्वष्टेः कांतिकर्मणोऽपि त्वयं मनुष्यकक्ष एवाभिप्रेतः स्यात्तं सोमानं सोतारं मा प्रकाशनवंतं कुरु ब्रह्मणस्पते (नि ६-१०) इति । अस्मिन्मंत्रे सोमावमिति पादेन कृणुहि ब्रह्मण इति पादेन सूचितं तात्पर्यं तैत्तरीया आमनंति । सोमानं स्वरणमित्याह सोमपीथमेवाव रुंद्धे । कृणुहि ब्रह्मणस्पत इत्याह ब्रह्मवर्चसमेवाव रुंद्धे । तै सं १-५-८-४ । इति ॥ सोमानम् । सुनोतीति । षुञ् अभिषवे । अन्येभ्योऽपि दृश्यंत इति मनिन् । दृशिग्रहणस्य विध्यंतरोपसंग्रहणार्थ त्वान्नित्त्वेऽपि नाद्युदात्तत्वं किंतु प्रत्ययस्वर एव । उंभादिषु वा सोमञ् शब्दो द्रष्टव्यः (पा ६-१-१६०) बहुलग्रहणादौणादिको वा मनिर्द्रष्टव्यः । स्वरणम् । प्रख्यातम् । स्वृशब्दोपतापयोः । कृत्यल्युटो बहुलम् (पा ३-३-११३) इति कर्मणि ल्युट् । लतीत्यकार उदात्तः । कृणुहि । कृवि हिंसाकरणयोश्च । इदितो नुम् धातोरिति नुम् । लोटः सिपो हिः । शपि प्राप्ते धिन्विकृण्व्योरच्चेत्युप्रत्ययः । तत्सन्नियोगेन वकारस्य चाकारः । तस्यातो लोपः इति लोपः । तस्य स्थानिवद्भावान्न पूर्वस्य लघूपधगुणः । हेर्ङित्त्वादुकारस्य न गुणः । उत्तश्च प्रत्ययाच्छंदोवावचनम् । पा ६-४-१०६-१ । इति हेर्लुग्न । सति शिष्टस्वरबलीयस्त्वमन्यत्र विकरणेभ्य इति वचनाद्धेरेव प्रत्ययस्वरेणोदात्तत्वम् । पादादित्वान्न निघातः । ब्रह्मणः षष्ठ्याः पतिपुत्रेत्यादिना (पा ८-३-५३) संहितायां विसर्जनीयस्य सकारः । सुबामंत्रितपरांगवद्भावात्पदद्वयस्यामंत्रितनिघातः । कक्षीवंतम् । कक्षे भवा कक्ष्याश्चोदरसंबंधिनी रज्जुः । भवे छंदसि (पा ४-४-११०) इति यत्प्रत्ययः । सास्यास्तीत्यर्थ आसंदीवदष्ठीवच्चक्रीवत्कक्षीवत् (पा ८-२-१२) इत्यृषिविशेषनाम कक्षीवच्छब्दो निपातितः । छंदसीर इति वत्वम् । यप्रत्ययस्वरेण तदादेशो निपातित ईकार उदात्तः । मतुप्सुपौ पित्त्वादनुदात्तौ । औशिजः । वश कांतौ । इजीत्यनुवृत्तौ वशेः किच्च (उ २-७१) इतीजिप्रत्ययः । तस्य कित्त्वाद्ग्रहिज्येत्यादिना संप्रसारणं परपूर्वत्वे गुणाभावः स तस्यापत्यम् (पा ४-१-९२) इति प्राग्दीव्यतोऽण् (पा ४-१-८३) आदिवृद्धिः । प्रत्ययस्वरेणांतोदात्तत्वं ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३४