मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १८, ऋक् २

संहिता

यो रे॒वान्यो अ॑मीव॒हा व॑सु॒वित्पु॑ष्टि॒वर्ध॑नः ।
स नः॑ सिषक्तु॒ यस्तु॒रः ॥

पदपाठः

यः । रे॒वान् । यः । अ॒मी॒व॒ऽहा । व॒सु॒ऽवित् । पु॒ष्टि॒ऽवर्ध॑नः ।
सः । नः॒ । सि॒स॒क्तु॒ । यः । तु॒रः ॥

सायणभाष्यम्

यो ब्रह्मणस्पती रेवान्दनवान्यश्चामीवहा रोगाणां हंता वसुविद्धनलब्धा पुष्टिवर्धनः पुष्टेर्वर्धयिता यश्च तुरस्त्वरोपेतः शीघ्रफलदः स ब्रह्मणस्पतिर्नोऽस्मान् सिषक्तु । सेवताम् । परिगृह्यानुगृह्णात्वित्यर्थः । अत्र सिषक्तुशब्दस्य सेवार्थत्वं यास्क आह । सिषक्तु सचत इति सेवमानस्य (नि ३-२१) इति प्रत्यायकौ शब्दाविति शेषः ॥ रेवान् । रयिरस्यास्तीति मतुप् । रयेर्मतौ बहुलम् । पा ६-१-३७-६ । इति यकारस्य संप्रसारणं परपूर्वत्वम् । छंदसीर इति वत्वम् । आद्गुणः । ननु वत्वस्यासिद्धत्वाद्बहिरंगत्वाच्च प्रागेव गुणे कृत इवर्णाभावान्न वत्वम् । न चांतादिवच्च (पा ६-१-८५) इत्यादिवद्भावेनेवर्णसंपादनं वर्णाश्रयविधौ तत्प्रतिषेधात् । अन्यथा खट्वाभिरत्यत्र सवर्णदीर्घस्यांतवद्भावेन अकारत्वादतो भिस ऐस् (पा ७-१-९) इत्यैसादेशः स्यात् । न च निरवकाशत्वेन वत्वस्यानवकाशत्वम् । अग्निवान्वैदर्भस्तंबः । उप ब्रह्माणि हरिवः । ऋग्वे १०-१०४-६ । इत्यादाववकाशलाभात् सत्यम् । अत्र गुणप्रवृत्तेः प्रागिकारात्परो मतुप् । कदाचिदिवर्णात्परस्य मतुपः पश्चादेकारादेशेनेवर्णाभावेऽपि भवति वत्वमिति छंदसीर इति सूत्रकृता विवक्षितम् । अमुनैवाभिप्रायेण हरिव इत्यादिकमुदाहृत्याप्यंते वृत्तिकृता आरेवानित्यप्युदाहृतम् । का ८-२-१५ । ह्रस्वनुड्भ्यामित्यत्रारेशब्दान्मतुप इत्युदात्तत्वं वक्तव्यम् । पा ६-१-१७६-१ । इत्यात्रारेशब्दो रेशब्दस्याप्युपलक्षणम् । अत एव हि रेवा इंद्रेत्यादौ मतुप उदात्तत्वं दृष्वम् । अथवा ह्रस्वनुड्भ्यामित्यत्रापि कदाचिद्ध्रस्वात्परस्य मतुप उदात्तत्वमित्येव व्याख्येयम् । एवं च संप्रसारणपरपूर्वत्वयोः कृतयोर्गुणात्प्राघ्घ्रस्वात्परो मतुबिति रेवानारेवानित्यादौ सर्वत्रोदात्तत्वं सिद्ध्यति । अयमेव सूत्रकृतोऽभिप्राये वार्तिककृता व्याख्यात इति । अमीवहा । अम रोग इत्येतस्माद्वन्प्रत्ययेनामीवशब्दो निपातितः । तं हंतीति बहलं छंदसीति क्विप् । कृदुत्तरपदप्रकृतिस्वरत्वम् । वसुवित् । वसु विंदतीति वसुवित् । क्विप्चेति क्विप् । उत्तरपद प्रकृतिस्वरत्वम् । पुष्टिवर्धनः । वर्धयतेर्नंद्यादित्वाल्ल्युः (पा ३-१-१३४) लितीति प्रत्ययात्पूर्वस्योदात्तत्वम् । पुष्वेर्वर्धन इति कर्मणि षष्ठ्या समासः । कृदुत्तरपदप्रकृसत्विरत्वम् । सिषक्तु । षच समवाये । लोट बहुलं छंदसीति शपः श्लुः । श्लाविति द्वित्वे हलादिशेषे बहुलं छंदसीत्यभ्यासस्याकारस्येकारः (पा ७-४-७८) तुरः । तुर त्वरणे । इगुपधज्ञाप्रीकिरः । कः प्रत्ययस्वरः ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३४