मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १८, ऋक् ३

संहिता

मा न॒ः शंसो॒ अर॑रुषो धू॒र्तिः प्रण॒ङ्मर्त्य॑स्य ।
रक्षा॑ णो ब्रह्मणस्पते ॥

पदपाठः

मा । नः॒ । शंसः॑ । अर॑रुषः । धू॒र्तिः । प्रण॑क् । मर्त्य॑स्य ।
रक्ष॑ । नः॒ । ब्र॒ह्म॒णः॒ । प॒ते॒ ॥

सायणभाष्यम्

अररुषो मर्त्यस्योपद्रवं कर्तुमस्मत्समीपं प्राप्तस्य शत्रुरूपस्य मनुष्यस्य धूर्तिर्हिंसकः शंसः शंसनम् । अधिक्षेप इत्यर्थः । कादृशो वाग्विशेषो नोऽस्मान्माप्रणक् । मा संपृणक्तु । शत्रुणा प्रयुक्तोऽधिक्षेपः कदाचिदस्मान्मा प्राप्नोत्वित्यर्थः । तदर्थं हे ब्रह्मणस्पते नोऽस्मान्रक्ष । पालय ॥ मा । निपातः । शंसनम् । शंसः । भावे घञ् । ञॆत्त्वादाद्युदात्तः । अररुषः । अर्तेररुः (उ ४-७९) इत्यंतर्भावितण्यर्थादृ गतावित्यस्मादरुस् । गुणो रपरत्वम् । प्रत्ययस्वरे प्राप्ते वृषादित्वादाद्युदात्तः । धूर्तिः । धुर्वी हिंसार्थः । क्तिच् क्तौ च संज्ञायामिति क्तिच् । तितुत्रतथसिसुसरकसेषु चेतीट् प्रतिषेधः । उपधायाश्च (पा ७-१-१०१) इत्युपधादीर्घत्वम् । वलि लोपं बाधित्वोठि प्राप्ते (पा ६-४-१९) राल्लोपः (पा ६-४-२१) इति वकारलोपः । प्रणक् । पृची संपर्के । लङस्तिप् । इतश्चेतीकारलोपः । हल्ङ्यादिलोपः । कुत्वम् । रुधादिभ्यः श्नम् । तस्य व्यत्ययो बहुलम् (पा ३-१-८५) इत्यडागमः । यणादेशः । अकारस्यागमानुदात्तत्वं बाधित्वा व्यत्ययेनोदात्तत्वम् । चादिलोपे विभाषेति निघाताभावः । मर्त्यस्य । मृङ् प्राणत्यागे असिहसिमृइत्यादिना (उ ३-८६) औणादिकस्तन्प्रत्ययः । मर्तेषु भव इत्यर्थे भव छंदसीति यत् । यतोऽनाव इत्याद्युदात्तत्वम् । रक्ष । रक्ष पालने । शपः पित्त्वादनुदात्तत्वम् । धातुस्वर एव शिष्यते । पादादित्वान्न निघातः । रक्षा णः । द्यृचोऽतस्तिङ इति दीर्घः । उपसर्गाद्बहुलम् (पा ८-४-२८) इति बहुलग्रहणादनुपसर्गादपि नसो णत्वम् । ब्मह्मणस्पते । षष्ठ्याः पतिपुत्रेति संहितायां विसर्गस्य सकारः । सुबामंत्रिते परांगवद्भावात्पदद्वयस्यामंत्रितनिघातः ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३४