मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १८, ऋक् ४

संहिता

स घा॑ वी॒रो न रि॑ष्यति॒ यमिन्द्रो॒ ब्रह्म॑ण॒स्पति॑ः ।
सोमो॑ हि॒नोति॒ मर्त्य॑म् ॥

पदपाठः

सः । घ॒ । वी॒रः । न । रि॒ष्य॒ति॒ । यम् । इन्द्रः॑ । ब्रह्म॑णः । पतिः॑ ।
सोमः॑ । हि॒नोति॑ । मर्त्य॑म् ॥

सायणभाष्यम्

इंद्रो देवो यं मर्त्यं यक्ष्यमाणं हिनोति प्राप्नोति वर्धयति वा । तथा ब्रह्मणस्पतिर्देवो हिनोति । तथा सोमो हिनोति । स घ स एव यजमानो वीरो वीर्ययुक्तः सन्न रिष्यति । न विनश्यति ॥ घ । चादिरनुदात्तः । संहितायामृचि तुनुघमक्षुतङ्कुत्रोरुष्याणाम् (पा ६-३-१३३) इति दीर्घः । ब्रह्मणस्पतिः । उक्तम् । हिनोति । हि गतौ वृद्धौ च । स्वादिभ्यः श्नुः । तिपः पित्त्वात् श्नुप्रत्ययस्वर एव शिष्यते ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३४