मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १८, ऋक् ५

संहिता

त्वं तं ब्र॑ह्मणस्पते॒ सोम॒ इन्द्र॑श्च॒ मर्त्य॑म् ।
दक्षि॑णा पा॒त्वंह॑सः ॥

पदपाठः

त्वम् । तम् । ब्र॒ह्म॒णः॒ । प॒ते॒ । सोमः॑ । इन्द्रः॑ । च॒ । मर्त्य॑म् ।
दक्षि॑णा । पा॒तु॒ । अंह॑सः ॥

सायणभाष्यम्

हे ब्रह्मणस्पते त्वं तं मर्त्यमनुष्ठातारं मनुष्यमंहसः पापात्पाहीति शेषः । तथा सोमः पात्विंद्रश्च पातु दक्षिणाख्या देवता च पातु ॥ दक्षिणा । दक्ष वृद्धौ । द्रुदक्षिभ्यामनिन् ॥ उ २-५० । नित्त्वादाद्युदात्तः । अंहसः नब्वियस्येत्यादिनाद्युदात्तः ॥ ३४ ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३४