मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १८, ऋक् ७

संहिता

यस्मा॑दृ॒ते न सिध्य॑ति य॒ज्ञो वि॑प॒श्चित॑श्च॒न ।
स धी॒नां योग॑मिन्वति ॥

पदपाठः

यस्मा॑त् । ऋ॒ते । न । सिध्य॑ति । य॒ज्ञः । वि॒पः॒ऽचितः॑ । च॒न ।
सः । धी॒नाम् । योग॑म् । इ॒न्व॒ति॒ ॥

सायणभाष्यम्

यज्ञोऽयमनुष्ठातव्यो विपश्चितश्चन विदुषोऽपि यजमानस्य यस्मात्सदसस्पतिदेवादृते न सिद्ध्यति सोऽयं सदसस्पतिर्देवो धीनां मनोऽनुष्ठानविषयाणामस्मद्बुद्धीनामनुष्ठेयकर्मणां वा योगं संबंधमिन्वति । व्याप्नोति । यजमानमनुगृह्य तदीयं यज्ञं निष्पादयतीत्यर्थः ॥ यस्मात् । अन्यारादित्यादिना (पा २-३-२९) ऋतेयोगात्पंचमी । सावेकाच इति विभक्तेरुदात्तत्वे प्राप्ते न गोश्वन्साववर्णेति प्रतिषेधः । सिद्ध्यति । षिधु संराद्धौ । श्यनो नित्त्वादाद्युदात्तत्वम् । यद्वृत्तान्नित्यमिति निघातप्रतिषेधः । धीनाम् । सावेकाच इति विभक्तेरुदात्तत्वम् । योगम् । युजिर् योगे । घञो ञित्त्वादाद्युदात्तत्वम् । इन्वति । इवि व्याप्तौ । शप् । इदितो नुम् धातोरिति नुम् । निघातः ॥ ७ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३५