मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १९, ऋक् १

संहिता

प्रति॒ त्यं चारु॑मध्व॒रं गो॑पी॒थाय॒ प्र हू॑यसे ।
म॒रुद्भि॑रग्न॒ आ ग॑हि ॥

पदपाठः

प्रति॑ । त्यम् । चारु॑म् । अ॒ध्व॒रम् । गो॒ऽपी॒थाय॑ । प्र । हू॒य॒से॒ ।
म॒रुत्ऽभिः॑ । अ॒ग्ने॒ । आ । ग॒हि॒ ॥

सायणभाष्यम्

त्यच्छब्दः सर्वनाम तच्छब्दपर्यायः । हे अग्ने यो यज्ञश्चारुरंगवैकल्यरहितस्त्यं तथाविधं चारुमध्वरं प्रतिलभ्य गोपीथाय सोमपानाय प्र हूयसे । प्रकर्षेण त्वं हूयसे । तस्मादस्मिन्नध्वरे त्वं मरुद्भिर्देवविशेषैः सहा गहि । आगच्छ । सेयमृग्यास्केनैवं व्याख्याता । तं प्रति चारुमध्वरं सोमपानाय प्रहूयसे सोऽग्ने मरुद्बिः सहागच्छ । नि १०-३६ । इति ॥ प्रति । निपात आद्युदात्तः । त्यम् । त्यदादीनामः (पा ७-२-१०२) प्रातिपदिकस्वरः । चारुम् । दृसनिजनिचरीत्यादिना (उ १-३) ञुण् । अत उपधाया इति थक्प्रत्ययांतो निपातितः । प्र । निपातस्वरः ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३६