मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १९, ऋक् २

संहिता

न॒हि दे॒वो न मर्त्यो॑ म॒हस्तव॒ क्रतुं॑ प॒रः ।
म॒रुद्भि॑रग्न॒ आ ग॑हि ॥

पदपाठः

न॒हि । दे॒वः । न । मर्त्यः॑ । म॒हः । तव॑ । क्रतु॑म् । प॒रः ।
म॒रुत्ऽभिः॑ । अ॒ग्ने॒ । आ । ग॒हि॒ ॥

सायणभाष्यम्

हे अग्ने महो महतस्तव संबंधिनं क्रतुं कर्मविशेषमुल्लंघ्य परोनहि उत्कृष्टो देवो न भवति खलु । तथा मर्त्यो मनुष्यश्च परो न भवति । ये मनुष्यास्त्वदीयं क्रतुमनुतिष्ठंति ये च देवास्त्वदीये क्रताविज्यंते त एवोत्कृष्टा इत्यर्थः । मरुद्भिरित्यादि पूर्ववत् ॥ नहि । एवमादीनामंत इत्यंतोदात्त । देवः ॥ पचाद्यजंतश्चित्त्वादंतोदात्तः । महः । महतस्तलोपश्छांदसः । बृहन्महतोरुपसंख्यानम् । पा ६-१-१७३-१ । इति विभक्तेरुदात्तत्वम् । तव युष्मदस्मदो र्ङसीत्याद्युदात्तत्वम् । क्रतुम् । कृञः कतुः (उ १-७८) प्रत्ययाद्युदात्तत्वम् । गहि । गम्लृ सृप्लृगतौ । लोटः सेर्हिः । बहुलं छंदसीति शपो लुक् । अनुदात्तोपदेशेत्यादिनानुनासिकलोपः । तस्यासिद्धवदत्रा भादित्यसिद्धत्वादतो हेरिति लुङ्न भवति । निघातः ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३६