मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १९, ऋक् ३

संहिता

ये म॒हो रज॑सो वि॒दुर्विश्वे॑ दे॒वासो॑ अ॒द्रुहः॑ ।
म॒रुद्भि॑रग्न॒ आ ग॑हि ॥

पदपाठः

ये । म॒हः । रज॑सः । वि॒दुः । विश्वे॑ । दे॒वासः॑ । अ॒द्रुहः॑ ।
म॒रुत्ऽभिः॑ । अ॒ग्ने॒ । आ । ग॒हि॒ ॥

सायणभाष्यम्

हे अग्ने ये मरुतो महो रजसो महत उदकस्य वर्षणप्रकारं विदुस्तैर्मरुद्भिरित्यन्वयः । कीदृशा मरुतः । विश्वे सर्वे सप्तविधगणोपेताः । सप्तगणा वै मरुतः । तै सं २-२-११-१ । इति श्रुतेः । देवासो द्योतमाना अद्रुहो द्रोहरहिता वर्षणेन सर्वभूतोपकारित्वात् । तथा चोपरिष्टादाम्नायते । उदीरयथा मरुतः समुद्रतो यूयं वृष्टिं वर्षयथा पुरीषिणः । ऋग्वे ५-५५-५ । इति शाखांतरेऽपि मंत्रांतरस्य ब्राह्मणमेवमाम्नायते । मरुतां पृषतयः स्थेत्याह मरुतो वै वृष्ट्या ईतत इति । रजः शब्दो यास्केन बहुधा व्याख्यातः । रजो रजतेर्ज्योती रज उच्यत उदकं रज उच्यते । लोका रजांस्युच्यंतेऽसृगहनी रजसी उच्येते (नि ४-१९) इति ॥ रजसः । नब्विषयस्यानिसंतस्येत्याद्युदात्तः । विदुः । विद ज्ञाने । विदो लटो वा (पा ३-४-८३) इति झेरुसादेशः । प्रत्यय स्वरः । यद्वृत्तयोगान्निघाताभावः । विश्वे । विशेः क्वनंतस्य नित्त्वादाद्युदात्तत्वम् । देवासः । आज्जसेरसुक् । देवशब्दः पचाद्यजंतः । चित्त्वादंतोदात्तः । आद्रुहः । संपदादित्वाद्भावे क्विपि बहुव्रीहौ नञ् सुभ्यामित्यंतोदात्तत्वम् । कर्तरि वाक्विप् । तत्पुरुषे ह्यव्ययपूर्वपदप्रकृतिस्वरत्वं स्यात् । न च कृदुत्तरपदप्रकृतिस्वरत्वम् । यतो नञ् न गतिर्न च कारक इति । पा ६-२-१३९ ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३६