मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १९, ऋक् ५

संहिता

ये शु॒भ्रा घो॒रव॑र्पसः सुक्ष॒त्रासो॑ रि॒शाद॑सः ।
म॒रुद्भि॑रग्न॒ आ ग॑हि ॥

पदपाठः

ये । शु॒भ्राः । घो॒रऽव॑र्पसः । सु॒ऽक्ष॒त्रासः॑ । रि॒शाद॑सः ।
म॒रुत्ऽभिः॑ । अ॒ग्ने॒ । आ । ग॒हि॒ ॥

सायणभाष्यम्

ये मरुतः शुभ्रत्वादिगुणोपेतास्तैर्मरुद्भिरित्यन्वयः । शुभ्राः । शोभना घोरदर्वस उग्ररूपधराः सुक्षत्रासः शोभनधनोपेता रिशादसो हिंसकानां भक्षकाः । मघमित्यादिष्वष्टाविंशतिसंख्याकेषु धननामसु क्षत्रं भग इति पठितं ॥ शुभ्राः । स्फायितंचीत्यादिना शुभेरौणादिको रक्प्रत्ययः । प्रत्ययस्वरः । घोरवर्पसः । घोरं वर्पो येषां बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् । सुक्षत्रासः । बहुव्रीहौ नञ् सुभ्यामित्तुरपदांतोदात्तत्वम् । आद्युदात्तं द्व्यच्छंदसि (पा ६-२-११९) इत्येव तु न भवति । क्षत्रशब्दस्यांतोदात्तत्वात् । रिशंति हिंसंतीति रिशाः । तानदंतीति रिशादसः । सर्वधातुभ्योऽसुन्प्रत्ययः । नित्स्वरेणोत्तरपदमाद्युदात्तम् । कृदुत्तरपदप्रकृतिस्वरेण स एव शिष्यते ॥ २६ ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३६