मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १९, ऋक् ७

संहिता

य ई॒ङ्खय॑न्ति॒ पर्व॑तान्ति॒रः स॑मु॒द्रम॑र्ण॒वम् ।
म॒रुद्भि॑रग्न॒ आ ग॑हि ॥

पदपाठः

ये । ई॒ङ्खय॑न्ति । पर्व॑तान् । ति॒रः । स॒मु॒द्रम् । अ॒र्ण॒वम् ।
म॒रुत्ऽभिः॑ । अ॒ग्ने॒ । आ । ग॒हि॒ ॥

सायणभाष्यम्

ये मरुतः पर्वतान्मेघानींखयंति चालयंति तथार्णवमुदकयुक्तम् । समुद्रं तिरः कुर्वंतीति शेषः । निश्चलस्य जलस्य तरंगाद्युत्पत्तये चालनं तिरस्कारः । तैर्मरुद्भिरित्यन्वयः ॥ ईंखयंति । उख उखीत्यादावीखिर्गत्यर्थः । हेतुमति चेति णिच् । इदितो नुम् धातोरिति नुम् । णिजंतधातोश्चित इत्यंतोदात्तत्वम् । शपः पित्त्वादनुदात्तत्वम् । तिङश्च लसार्वधातुकस्वरेण धातुस्वर एव शिष्यते । पर्वतान् । पूर्व पर्व मर्व पूरणे । औणादिकोऽतन् । प्रत्ययस्वरः ॥ ७ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३७