मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १९, ऋक् ८

संहिता

आ ये त॒न्वन्ति॑ र॒श्मिभि॑स्ति॒रः स॑मु॒द्रमोज॑सा ।
म॒रुद्भि॑रग्न॒ आ ग॑हि ॥

पदपाठः

आ । ये । त॒न्वन्ति॑ । र॒श्मिऽभिः॑ । ति॒रः । स॒मु॒द्रम् । ओज॑सा ।
म॒रुत्ऽभिः॑ । अ॒ग्ने॒ । आ । ग॒हि॒ ॥

सायणभाष्यम्

ये मरुतो रश्मिभिः सूर्यकिरणैः सहा तन्वंति आप्नुवंति । आकाशमिति शेषः । किंच ओजसा । स्वकीयबलेन समुद्रं तिरस्कुर्वंति । तैर्मरुद्भिरित्यन्वयः ॥ तन्वंति । तनु विस्तारे । लटॊ झोंऽतः । तनादिकृञ् भ्य उः (पा ३-१-७९) सति शिष्वस्वरबलीयस्त्त्वमन्यत्र विकरणेभ्य इति तिङ एवाद्युदात्तत्वम् । समुद्रं उंदीक्लदने । स्फायितंचेति रक् । समासे क्छदुत्तरपदप्रकृतिस्वरत्वं ॥ ८ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३७