मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् २२, ऋक् १

संहिता

प्रा॒त॒र्युजा॒ वि बो॑धया॒श्विना॒वेह ग॑च्छताम् ।
अ॒स्य सोम॑स्य पी॒तये॑ ॥

पदपाठः

प्रा॒तः॒ऽयुजा॑ । वि । बो॒ध॒य॒ । अ॒श्विनौ॑ । आ । इ॒ह । ग॒च्छ॒ता॒म् ।
अ॒स्य । सोम॑स्य । पी॒तये॑ ॥

सायणभाष्यम्

अत्र होताध्वर्युमुद्दिश्य ब्रूते । हे अध्वर्यो प्रातर्युजा प्रातः सवनग्रहेण संयुक्तावश्विनौ देवौ वि बोधय । विशेषेण प्रबुद्धौ कुरु । अश्विनौ प्रबुद्धौ चाश्विनौ देवावस्याभिषवसंस्कारयुक्तस्य सोमस्य पीतये पानायेह कर्मण्या गच्छतां ॥ प्रातर्युंजाते गृह्यमाणेन ग्रहेण सहेति प्रातर्युजा । सत्सूद्विषेत्यादिना क्विप् । सुपां सुलुगित्याकारः । कृदुत्तरपदप्रकृतिस्वरत्वम् । अस्य ऊडिदमित्यादिना विभक्तेरुदात्तत्वम् । पीतये । व्यत्ययेन क्तिन उदात्तत्वं ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः