या सु॒रथा॑ र॒थीत॑मो॒भा दे॒वा दि॑वि॒स्पृशा॑ ।
अ॒श्विना॒ ता ह॑वामहे ॥
या । सु॒ऽरथा॑ । र॒थिऽत॑मा । उ॒भा । दे॒वा । दि॒वि॒ऽस्पृशा॑ ।
अ॒श्विना॑ । ता । ह॒वा॒म॒हे॒ ॥
योभाश्विना देवा यावुभावश्विनौ देवौ सुरथा शोभनरथयुक्तौ रथीतमा रथिनां मध्येऽतिशयेन रथिनौ दिविस्पृशा द्युलोकनिवासिनौ ता हवामहे । तादृशावश्विनावाह्वयामहे ॥ येत्यादिष्वष्टसु पदेषु सुपां सुलुगिति द्विवचनस्याकारः । सुरथा । शोभनो रथो ययोस्तौ सुरथौ । समासांतोदात्तत्त्वापवादं बहुव्रीहौ पूर्वपदप्रकृतिस्वरं बाधित्वा नञ् सुभ्यामित्यत्तरपदांतोदात्तत्वे पाप्त आद्युदात्तं द्व्यच्छंदसीत्युत्तरपदाद्युदात्तत्वम् । रथीतमा । अन्येषामपि दृश्यत इति संहितायामिकारस्य दीर्घत्वम् । दिविस्पृशा । दिवि स्पृशत इति दिविस्पृशौ । क्विप्चेति क्विप् । तत्पुरुषे कृति बहुलमित्यलुक् । गतिकारकोपपदात्कृदिति कृदुत्तरपदप्रकृतिस्वरत्वं ॥ २ ॥