मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् २२, ऋक् ५

संहिता

हिर॑ण्यपाणिमू॒तये॑ सवि॒तार॒मुप॑ ह्वये ।
स चेत्ता॑ दे॒वता॑ प॒दम् ॥

पदपाठः

हिर॑ण्यऽपाणिम् । ऊ॒तये॑ । स॒वि॒तार॑म् । उप॑ । ह्व॒ये॒ ।
सः । चेत्ता॑ । दे॒वता॑ । प॒दम् ॥

सायणभाष्यम्

व्यूढस्य द्वितीये छंदोमे वैश्वदेवशस्त्रे हिरण्यपाणिमूतय इति सावित्र्यश्चतस्रः । द्वितीयस्येति खंडे सूत्रितम् । हिरण्यपाणिमूतय इति चतस्रो महिद्यौः पृथिवी च नः (आ ८-१०) इति ॥

ऊतयेऽस्मद्रक्षणार्थं सवितारं देवमुप ह्वये । आह्वयामि । स च सविता देव एतन्मंत्रप्रतिपाद्यदेवता भूत्वा पदं यजमानेन प्राप्यं स्थानं चेत्ता । ज्ञापयिता भवति । कीदृशं सवितारम् । हिरण्यपाणिं यजमानाय दातुं हस्ते सुवर्णधारिणम् । यद्वा । देवकर्तृके यागे सविता स्पयमृत्विग्भूत्वा ब्रह्मत्वेनावस्थितः । तदानीं कस्यांचिदिष्वावध्वर्यवस्तस्मै सवित्रे ब्रह्मणे प्राशित्रनामकं पुरोडाशभागं दत्तवंतः । तच्च प्राशित्रं हस्ते सवित्रा गृहीतं सत्तदीयपाणिं चिच्छेद । ततः प्राशित्रस्य दातारोऽध्वर्यवः सुवर्णमयं पाणिं निर्माय प्रक्षिप्तवंतः । सोऽयमर्थः कौषीतकिब्राह्मणे समाम्नातः । सवित्रे प्राशित्रं प्रतिजह्रुस्तत्तस्य पाणी प्रचिच्छेद तस्मै हिरण्मयौ प्रतिदधुस्तस्माद्धिरण्यपाणिरिति स्तुत इति । हिरण्यशब्दं पाणिशब्दं च यास्क एवं निर्वक्ति । हिरण्यं कस्माद्ध्रियत आयम्यमानमिति वा ह्रियते जनाज्जनमिति वा हितरमणं भवतीति वा हर्यतेर्वा स्यात्प्रेप्साकर्मणः (नि २-१०) इति । तथा पाणिः । पणायतेः पूजाकर्मणः (नि २-२६) इति ॥ हिरण्यशब्दो नब्विषयत्वादाद्युदात्तः । बहुव्रीहौ पूर्वपदप्रकृतिस्वरः । ऊतये उदात्त इत्यनुवृत्तावूतियूतिजूतिसातीत्यादिना क्तिनंतोंऽतोदात्तो निपातितः । सवितारम् । तृचश्चित्त्वादंतोदात्तत्वम् । चेत्ता । चिती संज्ञाने । अस्मादंतर्भावितण्यर्थात्ताच्छेल्ये तृन् । अनित्यमागमशासनमितीडभावः । नित्त्वादाद्युदात्तः । देवता । देवात्तल् (पा ५-४-२७) इति स्वार्थे तल् । लितीति प्रत्ययात्पूर्वमुदात्तत्वम् । पदशब्दः पचाद्यजंतः । चित इत्यंतोदात्तः ॥ ४ ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः