मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् २२, ऋक् ७

संहिता

वि॒भ॒क्तारं॑ हवामहे॒ वसो॑श्चि॒त्रस्य॒ राध॑सः ।
स॒वि॒तारं॑ नृ॒चक्ष॑सम् ॥

पदपाठः

वि॒ऽभ॒क्तार॑म् । ह॒वा॒म॒हे॒ । वसोः॑ । चि॒त्रस्य॑ । राध॑सः ।
स॒वि॒तार॑म् । नृ॒ऽचक्ष॑सम् ॥

सायणभाष्यम्

वसोर्निवासहेतोश्चित्रस्य सुवर्णरजतादिरूपेण बहुविधस्य राधसो धनस्य विभक्तारं अस्य यजमानस्यैतावद्धनदानमुचितमिति विभागकारिणं नृचक्षसं मनुष्याणां प्रकाशकारिणं सवितारं हवामहे । कौषीतकिन एतस्या ऋचो व्याख्यानरूपे ब्रह्मणे सवितुर्विभागहेतुत्वमेव समामनंति । यदेतद्वसोश्चित्रं राधस्तदेष सविता विभक्ताभ्यः प्रजाभ्यो विभजतीति ॥ विभक्तारम् । तृचश्चित्त्वादंतोदात्तत्वम् । कृदुत्तरपदप्रकृतिस्वरत्वेन तदेव शिष्यते । हवामहे । हूयतेर्बहुलं छंदसीति संप्रसारणम् । वसो । वस निवासे । शृस्वृस्निहीत्यादिना उः । निदित्यनुवृत्तेर्नित्त्वादाद्युदात्तः । राधसः । असुनंतो नित्त्वादाद्युदात्तः । नृचक्षसम् । नृंश्चष्व इति नृचक्षाः । तं नृचक्षसम् । चक्षेर्बहुलं शिच्च (उ ४-२३२) इत्यसुन् । शित्त्वादनार्धधातुकत्वेन ख्याञादेशाभावः । कृदुत्तरपदप्रकृतिस्वरत्वं ॥ ७ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः