मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् २२, ऋक् ८

संहिता

सखा॑य॒ आ नि षी॑दत सवि॒ता स्तोम्यो॒ नु नः॑ ।
दाता॒ राधां॑सि शुम्भति ॥

पदपाठः

सखा॑यः । आ । नि । सी॒द॒त॒ । स॒वि॒ता । स्तोम्यः॑ । नु । नः॒ ।
दाता॑ । राधां॑सि । शु॒म्भ॒ति॒ ॥

सायणभाष्यम्

सखिभूता हे ऋत्विज आ नि षीदत । सर्वत्रोपविशत । नोऽस्माकमयं सविता नु क्षिप्रं स्तोम्यः स्तुतियोग्यो राधांसि धनानि दाता प्रदातुमुद्युक्तः । एष सविता शुंभति । शोभते ॥ समानाः संतः ख्यांति प्रकाशंत इति सखायः । ख्या प्रकथने । समाने ख्याश्चोदात्तः (उ ४-१३६) इतीण् प्रत्ययः । तत्सन्नियोगेन डित्वं यलोपश्च । डित्त्वादाकारलोपः । समानस्य छंदसीत्यादिना (पा ६-३-८४) समान शब्दस्य सादेशः । इण्संनियोगेनोदात्तत्वम् । जसि सख्युरसंबुद्धौ (पा ७-१-९२) इति णित्त्वाद्वृद्धिरायादेशश्च । नि षीदत । सदेरप्रतेः (पा ८-३-६६) इति षत्वम् । स्तोमेषु प्रतिपाद्यत्वेन भवः स्तोम्यः । भवे छंदसीति यत् । यतोऽनाव इत्याद्युदात्तत्वम् । दाता दानशीलः । ताच्छील्ये तृन् । नित्त्वादाद्युदात्तः । राधांसि । गतम् । कर्तृकर्मणोः कृतीति प्राप्तायः षष्ठ्या न लोकाव्ययेति प्रतिषेधः ॥ ८ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः