मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् २२, ऋक् १०

संहिता

आ ग्ना अ॑ग्न इ॒हाव॑से॒ होत्रां॑ यविष्ठ॒ भार॑तीम् ।
वरू॑त्रीं धि॒षणां॑ वह ॥

पदपाठः

आ । ग्नाः । अ॒ग्ने॒ । इ॒ह । अव॑से । होत्रा॑म् । य॒वि॒ष्ठ॒ । भार॑तीम् ।
वरू॑त्रीम् । धि॒षणा॑म् । व॒ह॒ ॥

सायणभाष्यम्

हे अग्ने अवसेऽस्मानवितुं ग्ना देवपत्नीरिहा वह । तथा हे यविष्ठ युवतमाग्ने होत्रां होमनिष्पादकाग्निपत्नीं भारतीं भरतनामकस्यादित्यस्य पत्नीं वरूत्रीं वरणीयां धिषणां वाग्देवीं चा वह । वाग्वै धिषणेति वाजसनेयकम् । भरत आदित्यः (नि ८-१३) इति यास्केनोक्तत्वात्तस्य पत्नी भारतीत्युच्यते ॥ गम्यंत इति ग्नाः । गम्लृ सृप्लृ गतौ । औणादिको ड्नप्रत्ययः । डित्वाट्टलोपः । प्रत्ययस्वरः । होत्राम् । हुयामाश्रुभसिभ्यस्त्रन् (उ ४-१६७) इति त्रनंतो नित्त्वादाद्युदात्तः । अतिशयेन युवा यविष्ठः । अतिशायने तमबिष्ठनौ । स्थूलदूरेत्यादिना (पा ६-४-१५६) यणादिपरस्य लोपः पूर्वस्य च गुणः । भारतीं शार्ङ्गरवादेरवृत्कृतत्वात् ङीनंतो नित्त्वादाद्युदात्तः । वरूत्रीम् । ग्रसितस्कभितेत्यादौ (पा ७-२-३४) यद्यपि वरूतृशब्दस्तृजंत इत्युक्तं तथाप्यंत इतिकरणस्य प्रदर्शनार्थत्वाद्वरूतृशब्दस्तृनंतोऽपि द्रष्टव्यः । तेन नित्त्वादाद्युदात्तत्वम् । शेषनिघातेन ऋकारस्यानुदात्तत्वादुदात्तयणो हल्पूर्वादित्यपि न ङीप उदात्तत्वम् । धिषणाम् । क्युप्रत्ययानुवृत्तौ धृषेर्धिष च संज्ञायाम् (उ २-८२) इति क्युः ॥ ५ ॥ १० ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः