मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् २२, ऋक् १२

संहिता

इ॒हेन्द्रा॒णीमुप॑ ह्वये वरुणा॒नीं स्व॒स्तये॑ ।
अ॒ग्नायीं॒ सोम॑पीतये ॥

पदपाठः

इ॒ह । इ॒न्द्रा॒णीम् । उप॑ । ह्व॒ये॒ । व॒रु॒णा॒नीम् । स्व॒स्तये॑ ।
अ॒ग्नायी॑म् । सोम॑ऽपीतये ॥

सायणभाष्यम्

इहास्मिन्कर्मणि स्वस्तयेऽस्माकमविनाशाय सोमपीतये सोमपानाय चेंद्रवरुणाग्नीनां पत्नीराह्वयामि ॥ इंद्राणीम् । वरुणानीम् । इंद्रवरुणेत्यादिना (पा ४-१-४९) पुंयोगे ङीष्प्रत्यय आनुगागमश्च । प्रत्ययस्वरः । अग्नायीम् । वृषाकप्यग्निकुसितकुसीदानामुदात्तः (पा ४-१-३७) इति ङीप् । तत्संनियोगेनेकारस्यैकार उदात्तः । सोमपीतये । असकृत्पूर्वोक्तं ॥ १२ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः