मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् २२, ऋक् १४

संहिता

तयो॒रिद्घृ॒तव॒त्पयो॒ विप्रा॑ रिहन्ति धी॒तिभि॑ः ।
ग॒न्ध॒र्वस्य॑ ध्रु॒वे प॒दे ॥

पदपाठः

तयोः॑ । इत् । घृ॒तऽव॑त् । पयः॑ । विप्राः॑ । रि॒ह॒न्ति॒ । धी॒तिऽभिः॑ ।
ग॒न्ध॒र्वस्य॑ । ध्रु॒वे । प॒दे ॥

सायणभाष्यम्

गंधर्वस्य ध्रुवं पदमंतरिक्षम् । तथा च तापनीयशाखायां समाम्नायते । यक्षगंधर्वाप्सरोगणसेवितमंतरिक्षम् । नृ ता १-२ । इति । तेनांतरिक्षेणोपलक्षित आकाशे वर्तमानयोस्तयोरिद्द्यावापृथिव्योरेव संबंधि पयो जलं घृतवद्धृतसदृशं विप्रा मेधाविनः प्राणिनो धीतिभिः कर्मभी रिहंति । लिहंति यद्वा । घृतवद्धृतं सारं तेनोपेतं रिहंति । लिहेर्व्यत्ययेन रेफः । गंधर्वस्य । धृञ् धारणे । गवि गन् धृञो व इति वप्रत्ययः । तत्संन्नियोगेन गोशब्दस्य च गन्नादेशः ॥ १४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः