मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् २२, ऋक् १५

संहिता

स्यो॒ना पृ॑थिवि भवानृक्ष॒रा नि॒वेश॑नी ।
यच्छा॑ न॒ः शर्म॑ स॒प्रथः॑ ॥

पदपाठः

स्यो॒ना । पृ॒थि॒वि॒ । भ॒व॒ । अ॒नृ॒क्ष॒रा । नि॒ऽवेश॑नी ।
यच्छ॑ । नः॒ । शर्म॑ । स॒ऽप्रथः॑ ॥

सायणभाष्यम्

स्योना पृथिवीत्येषा महानाम्नीव्रते भूमिस्पर्शने विनियुक्ता । एतद्विदं ब्रह्मचारिणमिति खंडे सूत्रितम् । स्योना पृथिवि भवेति समाप्य । आ ८-१४ ॥ इति ॥ स्मार्ते हेमंतप्रत्यवरोहणेऽप्येषा जप्या । मार्गशीर्ष्यां प्रत्यवरोहणमिति खंडे सूत्रितम् । तस्मिन्नुपविश्य स्योना पृथिवि भवेति जपित्वा । आ- गृ । २-३-६ । इति ॥

हे पृथिवि स्योनत्वादिगुणयुक्ता भव । स्योनशब्दो विस्तीर्णवाची । तथा च वाजसनेयब्राह्मणे स्योनशब्दोपेतं कंचिन्मंत्रमुदाहृत्य व्याख्यातम् । इंद्रस्योरुमाविश स्योन स्योनमिति विस्तीर्णो विस्तीर्णमित्येव तदाहेति । यद्वा । स्योनशब्दः सुखवाची । तथा च यास्कवाक्यमुदाहरिष्यते । अनृक्षरा कंटकरहिता निवेशनी निवासस्थानभूता सप्रथो विस्तारयुक्तं शर्म शरणं न्योऽस्मभ्यं यच्छ । हे पृथिवि देहि । तामेतामृचमुदाहृत्य यास्क एवं व्याचष्टे । सुखा नः पृथिवि भवानृक्षरा निवेशन्यृक्षरः कंटक ऋच्छतेः कंटकः कंतपो वा कृंततेर्वा कंटतेर्वा स्याद्गतिकर्मण उद्गततमो भवति यच्छ नः शर्म शरणं सर्वतः पृथु (नि ९-३२) इति ॥ स्योना । षिवु तंतुसंताने । सिवेष्टेर्यो च उ । ३-९ । इति नप्रत्ययः । टेश्च यो इत्यादेशः । प्रत्ययस्वरः स्योना पृथिवीत्यनयोर्भवेत्याख्यातेनैवान्वयो न परस्वरम् । अतोऽसामर्थ्येनैव परांगवद्भावाभावादोकारस्य नामंत्रिताद्युदात्तत्वम् । अनृक्षरा । ऋषी गतौ । गच्छत्यंतरित्यृक्षरः कंटकः । तन्यृषिभ्यां क्सरन् (उ ३-७५) षढोः कः सीति कत्वम् । आदेशप्रत्यययोरिति षत्वम् । नञा बहुव्रीहिः । तस्मान्नुडचि (पा ६-३-७४) इति नुडागमः । नञ् सुभ्यामित्युत्तरपदांतोदात्तत्वम् । निविशंत्यस्यामिति निवेशनी । करणाधिकरणयोश्चेति ल्युट् । लतीति प्रत्ययात्पूर्वस्योदात्तत्वम् । यच्छ । दाण् दाने । पाघ्रेत्यादिना यच्छादेशः । द्व्यचोऽतस्तिङ इति दीर्घः । सप्रथः । प्रथ प्रख्याने असुन् । प्रथसा सह वर्तत इति तेन सहेति तुल्ययोगे (पा २-२-२८) इति समासः । वोपसर्जनस्य (पा ६-३-८२) इति सभावः । कृत्स्वरः ॥ ६ ॥ १५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः