मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् २२, ऋक् १७

संहिता

इ॒दं विष्णु॒र्वि च॑क्रमे त्रे॒धा नि द॑धे प॒दम् ।
समू॑ळ्हमस्य पांसु॒रे ॥

पदपाठः

इ॒दम् । विष्णुः॑ । वि । च॒क्र॒मे॒ । त्रे॒धा । नि । द॒धे॒ । प॒दम् ।
सम्ऽऊ॑ळ्हम् । अ॒स्य॒ । पां॒सु॒रे ॥

सायणभाष्यम्

वैष्णवोपांशुयाजस्येदं विष्णुरित्येषानुवाक्या । उक्ता देवता इति खंडे सूत्रितम् । इदं विष्णुर्वि चक्रमे त्रिर्देवः पृथिवीमेष एताम् (आ १-६) इति ॥ गार्हपत्याहवनीययोर्मध्ये श्वातिक्रमणेऽनयैव श्वपदेषु भस्म प्रक्षिपेत् । विध्यपराध इति खंडे सूत्रितम् । भस्मना शुनः पदं प्रतिवपेदिदं विष्णुर्वि चक्रमे (आ ३-१०) इति ॥ आतिथ्यायां प्रधानस्य हविष एषैवानुवाक्या । अथातिथ्येळांतेति खंडे सूत्रितम् । इदं विष्णुर्वि चक्रमे तदस्य प्रियमभि पाथो अश्याम् (आ ४-५) इति ॥ उपसत्सु वैष्णवस्यैषैवानुवाक्या । अथोपसदिति खंडे सूत्रितम् । गयस्फानो अमीवहेदं विष्णुर्वि चक्रमे । आ ४-८ ॥ इति ॥

विष्णुस्त्रिविक्रमावतारधारीदं प्रतीयमानं सर्वं जगदुद्दिश्य वि चक्रमे । विशेषेण क्रमणं कृतवान् । तदा त्रेधा त्रिभिः प्रकारैः पदं नि दधे । स्वकीयं पादं प्रक्षिप्तवान् । अस्य विष्णोः पांसुरे धूलियुक्ते पादस्थाने समूळ्हमिदं सर्वं जगत्सम्यगंतर्भूतम् । सेयमृग्यास्केनैवं व्याख्याता । विष्णुर्विशतेर्वा व्यश्नोतेर्वा । यदिदं किंच तद्विक्रमते विष्णुस्त्रिधा निधत्ते पदं त्रेधाभावाय पृथिव्यामंतरिक्षे दिवीति शाकपूणिः समारोहणे विष्णुपदे गयशिरसीत्यौर्णवाभः समूळ्हमस्य पांसुरेऽप्यायनेंऽतरिक्षे पदं न दृश्यतेऽपि वोपमार्थे स्यात् पांसुर एव पदं न दृश्यत इति पांसवः पादैः सूयंत इति वा पन्नाः शेरत इति वा पंसनीया भवंतीति वा । नि १२-१९ । इति ॥ त्रेधा एधाच्च (पा ५-३-४६) इत्येधाच् प्रत्ययः । चितोंऽतोदात्तः ! समूळ्हम् । वह प्रापणे । निष्ठेति क्तः । वचिस्वपीत्यादिना (पा ६-१-१५) संप्रसारणम् । ढत्वधत्वष्टुत्वढलोपदीर्घत्वानि । गतिरनंतर इति गतेः प्रकृतिस्वरत्वम् । अस्य । इदमोऽशादेश इत्यशनुदात्तः । प्रत्ययश्च सुप्स्वरेण । पांसुरे । नगपांसुपांडुभ्यश्चेति वक्तव्यम् । का ५-२-१०७-२ । इति मत्वर्थीयो रः । प्रत्ययस्वरः ॥ १७ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः