मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् २२, ऋक् १८

संहिता

त्रीणि॑ प॒दा वि च॑क्रमे॒ विष्णु॑र्गो॒पा अदा॑भ्यः ।
अतो॒ धर्मा॑णि धा॒रय॑न् ॥

पदपाठः

त्रीणि॑ । प॒दा । वि । च॒क्र॒मे॒ । विष्णुः॑ । गो॒पाः । अदा॑भ्यः ।
अतः॑ । धर्मा॑णि । धा॒रय॑न् ॥

सायणभाष्यम्

उपसदि वैष्णवयागस्य प्रातःकाले याज्या सायंकालेऽनुवाक्या त्रीणी पदेत्येषा । सूत्रितं च । त्रीणि पदा वि चक्रम इति स्विष्टकृदादि लुप्यते । आ ४-८ इति ॥

अदाभ्यः केनापि हिंसितुमशक्यो गोपाः सर्वस्य जगतो रक्षको विष्णुः पृथिव्यादिस्थानेष्वत एतेषु त्रीणि पदानि वि चक्रमे । किं कुर्वन् । धर्माण्यग्निहोत्रादीनि धारयन् । पोषयन् ॥ पदा । सुपां सुलुगित्यादिना विभक्तेर्डादेशः । तस्य स्थानिवद्भावेनानुदात्तत्वे प्राप्त उदात्तनिवृत्तिस्वरेणोदात्तत्वम् । गोपाः । गोपामृतस्य । ऋग्वे १-१-८ । इत्यत्रोक्तम् । अदाभ्यम् । दभेर्ऋहलोर्ण्यदितिण्यत् । नञ् समासः । अव्ययपूर्वपदप्रकृतिस्वरत्वम् । धारयन् । शपः पित्त्वादनुदात्तत्वम् । शतुश्च लसार्वधातुकस्वरेण णिच एव स्वरः शिष्यते ॥ १८ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः