विष्णो॒ः कर्मा॑णि पश्यत॒ यतो॑ व्र॒तानि॑ पस्प॒शे ।
इन्द्र॑स्य॒ युज्य॒ः सखा॑ ॥
विष्णोः॑ । कर्मा॑णि । प॒श्य॒त॒ । यतः॑ । व्र॒तानि॑ । प॒स्प॒शे ।
इन्द्र॑स्य । युज्यः॑ । सखा॑ ॥
हे ऋत्विगादयो विष्णोः कर्माणि पालनादीनि पश्यत । यतो यैः कर्मभिर्व्रतान्यग्निहोत्रादीनि पस्पशे सर्वो यजमानः स्पृष्टवान् । विष्णोरनुग्रहादनुतिष्ठतीत्यर्थः । तादृशो विष्णुरिंद्रस्य युज्यो योज्योऽनुकूलः सखा भवति । विष्णोरिंद्रानुकूल्यं त्वष्टा हतपुत्र इत्यनुवाकेऽथ वै तर्हि विष्णुरित्यादिना । तै सं २-४-१२-२ । प्रपंचेन तैत्तिरीया आमनंति ॥ पस्पशे । स्पश बाधनस्पर्शनयोः । लिट् । द्विर्भावे सर्पूर्वाः खयः (पा ७-४-६१) इति पकारः शिष्यते । सकारो लुप्यते । यद्वृत्तयोगादनिघातः । युज्यः । युजेर्बाहुलकात्क्यप् । कित्त्वाद्गुणाभावः । क्यपः पित्त्वादनुदात्तत्वम् । धातुस्वरः ॥ १९ ॥