मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् २२, ऋक् २०

संहिता

तद्विष्णो॑ः पर॒मं प॒दं सदा॑ पश्यन्ति सू॒रयः॑ ।
दि॒वी॑व॒ चक्षु॒रात॑तम् ॥

पदपाठः

तत् । विष्णोः॑ । प॒र॒मम् । प॒दम् । सदा॑ । प॒श्य॒न्ति॒ । सू॒रयः॑ ।
दि॒विऽइ॑व । चक्षुः॑ । आऽत॑तम् ॥

सायणभाष्यम्

सूरयो विद्वांस ऋत्विगादयो विष्णोः संबंधि परममुत्कृष्टं तच्छास्त्रप्रसिद्धम् । पदं स्वर्गस्थानं शास्त्रदृष्ट्या सर्वदा पश्यंति । तत्र दृष्टांतः । दिवीव । अकाशे यथाततं सर्वतः प्रसृतं चक्षुर्नियोधाभावेन विशदं पश्यति । तद्वत् ॥ सदा । सर्वैकान्येति (पा ५-३-१५) दाप्रत्ययः । सर्वस्य सोऽनृतरस्यां दि (पा ५-३-६) इति सर्वशब्दस्य सभावः । व्यत्ययेनाद्युदात्तत्वम् । दिवि । ऊडिदमित्यादिना विभक्तेरुदात्तत्वम् । इवेन विभक्त्यलोपः पूर्वपदप्रकृतिस्वरत्वं चेति तदेव शिष्यते । चक्षुः । नब्विषयस्येत्याद्युदात्तत्वम् । आततम् । तनोतेः कर्मणि क्तः । यस्य विभाषेतीट् प्रतिषेधः । अनुदात्तोपदेशेत्यादिना नलोपः । कृदुत्तरपदप्रकृतिस्वरत्वे प्राप्ते गतिरनंतर इति गतेरुदात्तत्वं ॥ २० ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः