मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् २२, ऋक् २१

संहिता

तद्विप्रा॑सो विप॒न्यवो॑ जागृ॒वांस॒ः समि॑न्धते ।
विष्णो॒र्यत्प॑र॒मं प॒दम् ॥

पदपाठः

तत् । विप्रा॑सः । वि॒प॒न्यवः॑ । जा॒गृ॒ऽवांसः॑ । सम् । इ॒न्ध॒ते॒ ।
विष्णोः॑ । यत् । प॒र॒मम् । प॒दम् ॥

सायणभाष्यम्

पूर्वोक्तं विष्णोर्यत्परमं पदमस्ति तत्पदं विप्रासो मेधाविनः समिंधते । सम्यक् दीपयंति । कीदृशाः । विपन्यवो विशेषेण स्तोतारो जागृवांसः शब्दार्थयोः प्रमादराहित्येन जागरूकाः ॥ विप्रासः । अज्जसेरसुक् । विपन्यवः स्तुत्यर्थस्यः पनेर्बाहुलक औणादिको युप्रत्ययः । तत्र प्रत्ययस्वरः । जागृवांसः । जागृ निद्राक्षये । लिटः क्वसुः । क्रादिनियमात्प्राप्तस्येटो वस्वेकाजाद्घसामिति नियमान्निवृत्तिः ॥ ७ ॥ २१ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः