मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् २३, ऋक् २

संहिता

उ॒भा दे॒वा दि॑वि॒स्पृशे॑न्द्रवा॒यू ह॑वामहे ।
अ॒स्य सोम॑स्य पी॒तये॑ ॥

पदपाठः

उ॒भा । दे॒वा । दि॒वि॒ऽस्पृशा॑ । इ॒न्द्र॒वा॒यू इति॑ । ह॒वा॒म॒हे॒ ।
अ॒स्य । सोम॑स्य । पी॒तये॑ ॥

सायणभाष्यम्

पूर्वोक्त एव शस्त्र उभा देवा दिविस्पृशेति द्वे ऐंद्रवायवतृचस्य प्रथमाद्वितीये । तथा च द्वितीयस्येति खंडे सूत्रितम् । उभा देवा दिविस्पृशेति द्वे (आ ७-६) इति ॥

दिविस्पृशा द्युलोकवर्तिनावुभा देवा द्वौ देवाविंद्रवायू हवामहे । आह्वयामः । किमर्थम् । अस्य सोमस्य पीतये । असकृद्व्याख्यातं ॥ उभा देवा । सुपां सुलुगित्याकारः । दिविस्पृशा । हृद्युभ्यां ङेरुपसंख्यानम् । पा ६-३-९-१ । इति सप्तम्या अलुक् । कृदुत्तरपदप्रकृतिस्वरत्वम् । इंद्रवायू । इंद्रश्च वायुश्चेति द्वंद्वः । उभयत्र वायोः प्रतिषेधू वक्तव्यः । पा ६-३-२६-१ । इत्यानङो निषेधः । देवताद्वंद्वे चेति प्राप्तस्योभयपदप्रकृतिस्वरत्वस्य नोत्तरपदेऽनुदात्तादौ (पा ६-२-१४२) इति निषेधात्समासांतोदात्तत्वमेव शिष्यते । हवामहे । ह्वेञ् स्पर्धायां शब्दे च । बहुलं छंदसीति संप्रसारणम् । संप्रसारणाच्चेति परपूर्वत्वम् । शप् । गुणावादेशौ । शपः पित्त्वादनुदात्तत्वम् । तिङश्च लसार्वधातुकस्वरेण पदस्याद्युदात्तत्वे प्राप्ते तिङ्ङतिङ इत्याष्टमिको निघातः । अस्य । ऊडिदमित्यादिना षष्ठ्या उदात्तत्वम् । पीतये । पा पाने । स्थागापापचः (पा ३-३-९५) इति भावे क्तिन् । घुमास्थेतीत्वम् । व्यत्ययेनांतोदात्तत्वं ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः