मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् २३, ऋक् ४

संहिता

मि॒त्रं व॒यं ह॑वामहे॒ वरु॑णं॒ सोम॑पीतये ।
ज॒ज्ञा॒ना पू॒तद॑क्षसा ॥

पदपाठः

मि॒त्रम् । व॒यम् । ह॒वा॒म॒हे॒ । वरु॑णम् । सोम॑ऽपीतये ।
ज॒ज्ञा॒ना । पू॒तऽद॑क्षसा ॥

सायणभाष्यम्

चतुर्विंशकेऽहनि प्रातःसवने मैत्रावरुणशस्त्रे मित्रं वयं हवामह इति तृचः षडहस्तोत्रियः । चतुर्विंश इति खंडे सूत्रितम् । आ नो मित्रावरुणा मित्रं वयं हवामहे (आ ७-२) इति ॥ अभिप्लवषडहेऽपि प्रातःसवने मैत्रावरुणस्यायं तृच आवापार्थः । अभिप्लवपृष्ठ्याहानीति खंडे सूत्रितम् । परिशिष्टानावापानुद्धृत्य मित्रं वयं हवामहे (आ ७-५) इति ॥ मैत्रावरुणस्य मित्रं वयं हवामह इत्येषा प्रातःसवने प्रस्धितयाज्या । प्रशास्ता ब्राह्मणाच्छंसीत्युपक्रम्येदं ते सौम्यं मधु मित्रं वयं हवामहे । आ । ५-५ । इति सूत्रितं ॥

वयमनुष्ठातारः सोमपीतये सोमपानार्थं मित्रं वरुणं चोभावाह्वयामः । कीदृशावुभौ । जज्ञाना कर्मप्रदेशे प्रादुर्भवंतौ पूतदक्षसा शुद्धबलौ ॥ वरुणम् । वृञ् वरणे । कृवृतृदारिभ्य उनन् (उ ३-५३) नित्त्वादाद्युदात्तः सोमपीतये । दासीभारादित्वात्पूर्वपदप्रकृतिस्वरत्वम् । जज्ञाना । जनी प्रादुर्भावे । छंदसि लिट् (पा ३-२-१०५) तस्य लिटः कानज्वा (पा ३-२-१०६) इति कानजादेशः । गमहनेत्यादिना (पा ६-४-९८) उपधालोपः तस्याचः परस्मिन्निति स्थानिवद्भावाज्जनशब्दस्य द्विर्वचनम् । स्तोः श्चुनाश्चुः (पा ८-४-४०) इति नकारस्य ञकारः । चित इत्यंतोदात्तत्वम् । पूर्ववदाकारः । पूतदक्षसा । पूञ् पवने । निष्ठेति क्तः । श्र्युकः किति (पा ७-२-११) इतीट् प्रतिषेधः । पूतं दक्षो ययोस्तौ बहुव्रीहौ प्रकृत्येति पूर्वपदप्रकृतिस्वरत्वं ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः