मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् २३, ऋक् ५

संहिता

ऋ॒तेन॒ यावृ॑ता॒वृधा॑वृ॒तस्य॒ ज्योति॑ष॒स्पती॑ ।
ता मि॒त्रावरु॑णा हुवे ॥

पदपाठः

ऋ॒तेन॑ । यौ । ऋ॒त॒ऽवृधौ॑ । ऋ॒तस्य॑ । ज्योति॑षः । पती॒ इति॑ ।
ता । मि॒त्रावरु॑णा । हु॒वे॒ ॥

सायणभाष्यम्

यौ मित्रावरुणावृतेन सत्यवचनेन यजमानानुग्रहकारिणा ऋतावृधौ । ऋतमवश्यं भावितया सत्यं कर्मफलं तस्य वर्धकौ । ऋतस्य सत्यस्य प्रशस्तस्य ज्योतिषः प्रकाशस्य पती पालकौ । श्रुत्यंतरे मित्रावरुणयोरदितिपुत्रत्वेन श्रुतत्वाद्द्वादशादित्येष्वंतर्भूतत्वेन ज्योतिष्पालकत्वं युक्तम् । श्रुत्यंतरे चाष्टौ पुत्रासो अदितेरित्युपक्रम्य मित्रश्च वरुणश्चेत्यादिकमाम्नातम् । तै । आ १-१३ २-३ । ता मित्रावरुणा तथाविधौ मित्रावरुणौ हुवे । आह्वयामि ॥ ऋतावृधौ । वृधु वृद्धौ । क्विप्चेति क्विप् । अन्येषामपि दृश्यत इति दीर्घः । कृदुत्तरपदप्रकृतिस्वरत्वम् । ज्योतिषः । द्युत दीप्तौ । द्युतेरिसिन्नादेश्च जः (उ २-१११) इतीसिन्प्रत्ययः । नित्त्वादाद्युदात्तः । षष्ठ्याः पतिपुत्रेति संहितायां विसर्जनीयस्य सत्वम् । मित्रावरुणा । देवताद्वंद्वे चेत्यानङ् । देवताद्वंद्वे चेत्युभयपदप्रकृतिस्वरत्वम् । सुपां सुलुगिति पूर्वसवर्णदीर्घ आकारः । हुवे । ह्वेञ् । आत्मनेपदोत्तमपुरुषैकवचने संप्रसारणे परपूर्वत्वे च कृते बहुलं छंदसीति शपो लुक् । टेरेत्वम् । गुणे प्राप्ते क्ङिति च (पा १-१-५) इति प्रतिषेधः । उवङादेशः तिङ्ङतिङ इति निघातः ॥ ८ ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः