मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् २३, ऋक् ७

संहिता

म॒रुत्व॑न्तं हवामह॒ इन्द्र॒मा सोम॑पीतये ।
स॒जूर्ग॒णेन॑ तृम्पतु ॥

पदपाठः

म॒रुत्व॑न्तम् । ह॒वा॒म॒हे॒ । इन्द्र॑म् । आ । सोम॑ऽपीतये ।
स॒ऽजूः । ग॒णेन॑ । तृ॒म्प॒तु॒ ॥

सायणभाष्यम्

मरुत्वंतं मरुद्भिर्युक्तमिंद्रं सोमपीतये सोमपानाया हवामहे । आह्वयामः । स चेंद्रो गणेन मरुत्समूहेन सजूः सह तृंपतु । तृप्तो भवतु ॥ मरुत्वंतम् । मरुतोऽस्य संतीति मरुत्वान् । झयः (पा ८-२-१०) इति मतुपो वत्वम् । तसौ मत्वर्थे (पा १-४-१९) इति भसंज्ञायां पदसंज्ञाया बाधितत्वाज्जश्त्वाभावः । मतुप्सुपौ पित्त्वादनुदात्तौ । ननु ह्रस्वनुड्भ्यां मतुप् (पा ६-१-१७६) इति मतुप उदात्तत्वेन भवितव्यं स्वरविधौ व्यंजनमविद्यमानवत् । परि ७९ । इति तकारस्याविद्यमानवत्त्वेन ह्रस्वात्परत्वात् । न । ह्रस्वनुड्भ्यामित्यत्र नुड्ग्रहणसामर्थ्यादविद्यमानपरिभाषा नाश्रीयत इति वृत्तावुक्तम् । का ६-१-१७६ । अतो मरुच्छब्दस्य स्वर एव शिष्यते । सजूः । जुषी प्रीतिसेवनयोः । संपदादिलक्षणः क्विप् । समाना प्रीतिर्यस्येति बहुव्रीहिः । समानस्य छंदसीति सभावः । ससजुषो रुः (पा ८-२-६६) इति रुत्वम् । स र्वोरुपधायाः (पा ८-२-७६) इत्युपधादीर्घः । बहुव्रीहिस्वरे प्राप्ते त्रिचक्रादीनां छंदसि । पा ६-२-१९९-१ । इत्युत्तरपदांतोदात्तत्वम् । तृंपतु । तृप तृन्प तृप्तौ । तुदादिभ्यः शः । शे मुचादीनाम् । पा ७-१-५९ इति नुगागमः ॥७ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः