मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् २३, ऋक् ८

संहिता

इन्द्र॑ज्येष्ठा॒ मरु॑द्गणा॒ देवा॑स॒ः पूष॑रातयः ।
विश्वे॒ मम॑ श्रुता॒ हव॑म् ॥

पदपाठः

इन्द्र॑ऽज्येष्ठाः । मरु॑त्ऽगणाः । देवा॑सः । पूष॑ऽरातयः ।
विश्वे॑ । मम॑ । श्रु॒त॒ । हव॑म् ॥

सायणभाष्यम्

हे देवास इंद्रमरुद्रूपा विश्वे सर्वे यूयं मम हवमाह्वानं श्रुत । शृणुत । कीदृशाः । इंद्रज्येष्ठाः । इंद्रो ज्येष्ठो मुख्यो येषु ते । तथाविधा मरुद्गणाः मरुत्समूहरूपाः । पूषरातयः । पूषाख्यो देवो रातिर्दातायेषामिंद्रमरुतां ते पूषरातयः ॥ इंद्रज्येष्ठाः । आमंत्रिताद्युदात्तत्वम् । पादादित्त्वादनिघातः । मरुद्गणाः । विभाषितं विशेषवचने बहुवचनम् (पा ८-१-७४) इति पूर्वस्याविद्यमानवत्त्वादनिघातः । देवासः पूषरातयः । पूर्ववत् । श्रुत । श्रु श्रवणे । लोण्मध्यमबहुवचनं थ । तस्थस्थमिपाम् (पा ३-४-१०१) इति तादेशः । व्यत्ययेन शप् । बहुलं छंदसीति शपो लुक् । सार्वधातुकार्धधातुकयोरिति गुणे प्राप्ते क्ङिति चेति प्रतिषेधः । द्व्यचोऽतस्तिङ इति दीर्घः । हवम् । ह्वेञ् स्पर्धायां शब्दे च । भावेऽनुपसर्गस्य (पा ३-३-७५) इत्यप् । संप्रसारणं परपूर्वत्वं गुणावादेशौ । पित्त्वादनुदात्तत्वम् । धातुस्वरः शिष्यते ॥ ८ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः