मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् २३, ऋक् ९

संहिता

ह॒त वृ॒त्रं सु॑दानव॒ इन्द्रे॑ण॒ सह॑सा यु॒जा ।
मा नो॑ दु॒ःशंस॑ ईशत ॥

पदपाठः

ह॒त । वृ॒त्रम् । सु॒ऽदा॒न॒व॒ । इन्द्रे॑ण । सह॑सा । यु॒जा ।
मा । नः॒ । दुः॒ऽशंसः॑ । ई॒श॒त॒ ॥

सायणभाष्यम्

हे सुदानवः शोभनदानयुक्ताः मरुद्गणाः सहसा बलवता युजा योग्येनेंद्रेण सह वृत्रं शत्रुं हत । नाशयत । दुःशंसो दुष्टेन शंसनेन कीर्तनेन युक्तोवृत्रो नोऽस्मान्प्रति मेशत । समर्थो मा भूत् ॥ हत । हन हिंसागत्योः लोटस्थ । तस्य त । अदिप्रभृतिभ्यः शप इति शपो लुक् । अनुदात्तोपदेशेत्यादिनानुनासिकलोपः । सुदानवः । डुदाञ् दाने । दाभाभ्यां नुः । उ ३ । ३२ । इत्यौणादिको नुप्रत्ययः । प्रादिसमास आमंत्रितनिघातः । युजा । युजिर् योगे । ऋत्विगित्यादिना क्विन् । सावेकाच इति तृतीयैकवचनस्योदात्तत्वम् । दुःशंसः । ई षद्दुःसुष्विति खल् । लितीति प्रत्ययात्पूर्वस्योदात्तत्वम् । ईशत । ईश ऐश्वर्ये । माङि लुङि प्राप्ते छंदसि लुङ् लङ् लिट इति व्यत्ययेन लङ् । तस्य बहुलं छंदसीति शपो लुगभावः । न माङ्योग इत्याडागमाभावः । तिङ्ङतिङ इति निघातः ॥ ९ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः