मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् २३, ऋक् १०

संहिता

विश्वा॑न्दे॒वान्ह॑वामहे म॒रुत॒ः सोम॑पीतये ।
उ॒ग्रा हि पृश्नि॑मातरः ॥

पदपाठः

विश्वा॑न् । दे॒वान् । ह॒वा॒म॒हे॒ । म॒रुतः॑ । सोम॑ऽपीतये ।
उ॒ग्राः । हि । पृश्नि॑ऽमातरः ॥

सायणभाष्यम्

मरुतो मरुत्संज्ञ कान्विश्वान्सर्वान्देवान्सोमपीतये हवामहे । सोमपानार्थमाह्वयामः । ते च मरुत उग्राः शत्रुभिरसह्यबलाः पृश्निमातरः पृश्नेर्नानावर्णयुक्ताया भूमेः पुत्राः । हिशब्दः प्रसिद्ध्यर्थः । सा च प्रसिद्धिः पृश्नेः पुत्राः । ऋग्वे ५-५८-५ । इति मंत्रांतरादवगंतव्या ॥ पृश्निमातरः । पृश्निर्माता येषां ते । पृश्निशब्दो घृणिः पृश्निरित्युणादावाद्युदात्तोनिपातितः (उ ४-५२) बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वं ॥ ९ ॥ १० ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः