मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् २३, ऋक् ११

संहिता

जय॑तामिव तन्य॒तुर्म॒रुता॑मेति धृष्णु॒या ।
यच्छुभं॑ या॒थना॑ नरः ॥

पदपाठः

जय॑ताम्ऽइव । त॒न्य॒तुः । म॒रुता॑म् । ए॒ति॒ । धृ॒ष्णु॒ऽया ।
यत् । शुभ॑म् । या॒थन॑ । न॒रः॒ ॥

सायणभाष्यम्

मरुतां देवानां तन्यतुः शब्दो धृष्णुयाधार्ष्ण्ययुक्तः सन्नेति । गच्छति । केषामिव । जयतां विजययुक्तानां शूराणां भटानामिव । हे नरो नेतारो मरुतो यूयं यद्यदा शुभं शोभनं देवयजनं याथन प्राप्नुथ । तदा त्वदीयः शब्दो गच्छतीति पूर्वत्रान्वयः ॥ तन्यतुः । तनु विस्तारे । ऋतन्यंजीत्यादिना (उ ४-२) यतुच् प्रत्ययः । धृष्णुया ञिधृषा प्रागल्भ्ये । असिगृधिधृषिक्षिपेः क्नुः (पा ३-२-१४०) सुपां सुलुगिति सोर्याजादेशः । चित्त्वादंतोदात्तः । याथन । तप्तनप्तनथनाश्चेति थनादेशः । यच्छब्दयोगान्निघाताभावः ॥ ११ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १०