मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् २३, ऋक् १२

संहिता

ह॒स्का॒राद्वि॒द्युत॒स्पर्यतो॑ जा॒ता अ॑वन्तु नः ।
म॒रुतो॑ मृळयन्तु नः ॥

पदपाठः

ह॒स्का॒रात् । वि॒ऽद्युतः॑ । परि॑ । अतः॑ । जा॒ताः । अ॒व॒न्तु॒ । नः॒ ।
म॒रुतः॑ । मृ॒ळ॒य॒न्तु॒ । नः॒ ॥

सायणभाष्यम्

हस्काराद्दीप्तिकराद्विद्युतो विशेषेण दीप्यमानादतोऽंतरिक्षात्परि जाताः सर्वत उत्पन्ना मरुतो नोऽस्मानवंतु । रक्षंतु । तथाविधा मरुतो नोऽस्मान्मृळयंतु । सुखयंतु ॥ हस्कारात् । हसे हसने । अत्र तु प्रकाशमात्रे वर्तते । अस्मात्संपदादिलक्षणः क्विप् । अस्मिन्नुपपदे डुकृञ् करण इत्यास्मात्कर्मण्यण् (पा ३-२-१) इत्यण् प्रत्यय ॥ तत्पुरुषे तुल्यार्थेत्यादिना पूर्वपदप्रकृतिस्वरत्वे प्राप्ते गतिकारकेत्यादिना कृदुत्तरपदप्रकृतिस्वरत्वम् । अतः कृकमीत्यादिना (पा ८-३-४६) विसर्जनीयस्य सत्वं ॥ १२ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १०