मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् २३, ऋक् १३

संहिता

आ पू॑षञ्चि॒त्रब॑र्हिष॒माघृ॑णे ध॒रुणं॑ दि॒वः ।
आजा॑ न॒ष्टं यथा॑ प॒शुम् ॥

पदपाठः

आ । पू॒ष॒न् । चि॒त्रऽब॑र्हिषम् । आघृ॑णे । ध॒रुण॑म् । दि॒वः ।
आ । अ॒ज॒ । न॒ष्टम् । यथा॑ । प॒शुम् ॥

सायणभाष्यम्

हे पूषन् चित्रबर्हिषं विचित्रैर्दर्भैयुक्तं धरुणं यागस्य धारकं सोमं दिव आ द्युलोकादा हरेति शेषः । पूषा विशेष्यते । आघृणे आगतदीप्तियुक्त । तत्र दृष्टांतः । हे अज गमनशील यथा लोके नष्टं पशुं महारण्यादावन्वीक्ष्य कश्चिदाहरति तद्वत् ॥ आघृणे । घृ क्षरणदीप्त्योरित्यास्माद्घृणिः पृश्निरिति निप्रत्ययो निपातितः । ऋवर्णाच्चेति वक्तव्यमिति णत्वम् । प्रादिसमासः । आमंत्रिताद्युदात्तत्वम् । धरुणम् । धृञ् धारणे । अस्माण्यंताद्धातोरर्जेर्णिलुक्च (उ ३-५८) इत्युनन्प्रत्ययः । व्यत्ययेन नित्स्वराभावे प्रत्ययस्वरः । दिवः । ऊडिदमित्यादिना षष्ठ्या उदात्तत्वम् । अज । अज गतिक्षेपणयोः ॥ १३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १०