मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् २३, ऋक् १४

संहिता

पू॒षा राजा॑न॒माघृ॑णि॒रप॑गूळ्हं॒ गुहा॑ हि॒तम् ।
अवि॑न्दच्चि॒त्रब॑र्हिषम् ॥

पदपाठः

पू॒षा । राजा॑नम् । आघृ॑णिः । अप॑ऽगूळ्हम् । गुहा॑ । हि॒तम् ।
अवि॑न्दत् । चि॒त्रऽब॑र्हिषम् ॥

सायणभाष्यम्

आघृणिः पूषा राङानं सोममविंदत् । अलभत । कीदृशम् । अपगूळ्हमत्यंत गूढम् । तत्र हेतुः । गुहा हितं गुहासदृशे दुर्गमे द्युलोके स्थितम् । तथा चित्र बर्हिषं ॥ अपगूळ्हम् । गुहू संवरणे । निष्ठेति कर्मणि क्तः । हो ढः (पा ८-२-३१) इति ढत्वम् । झषस्तथोर्धोऽधः (पा ८-२-४०) इति धकारः । ष्वुत्वढलोपदीर्घाः । समासे गतिरनंतर इति गतेः प्रकृतिस्वरत्वम् । गुहा । सुपां सुलुगिति सप्तम्या लुक् । हितम् । निष्ठायां दधातेर्हिः ॥ १४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १०