मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् २३, ऋक् १५

संहिता

उ॒तो स मह्य॒मिन्दु॑भि॒ः षड्यु॒क्ताँ अ॑नु॒सेषि॑धत् ।
गोभि॒र्यवं॒ न च॑र्कृषत् ॥

पदपाठः

उ॒तो इति॑ । सः । मह्य॑म् । इन्दु॑ऽभिः । षट् । यु॒क्तान् । अ॒नु॒ऽसेसि॑धत् ।
गोभिः॑ । यव॑म् । न । च॒र्कृ॒ष॒त् ॥

सायणभाष्यम्

उतो अपि च स पूषा मह्यम् । यजमानायेंदुभिर्यागहेतुभिः सोमैर्युक्तान् षड्वसंतादीनृतूननुसेषिधत् । अनुक्रमेण पुनःपुनर्नयन्वर्तत इति शेषः । तत्र डृष्टांतः । गोभिर्बलीवर्दैर्यवं न चर्कृषत् । नशब्द उपमार्धः । यथा यवमुद्दिश्य भूमिं प्रतिसंवत्सशं पुनःपुनः कृषति तद्वत् । मह्यम् । ङयि च (पा ६-१-२१२) इत्याद्युदात्तत्वम् । इंदुभिः । उंदी क्लेदने । उंदेरिच्चादेः (उ १-१३) इत्युप्रत्ययः उकारस्येकारादेशश्च । निदित्यनुवृत्तेराद्युदात्तत्वम् । युक्तान् । दीर्घादट समानपाद इति संहितायां नकारस्य रुत्वम् । आतोऽट नित्यमिति सानुनासिक आकारः । अनुसेषिधत् । षिधु गत्याम् । धातोरेकाचः (पा ३-१-२२) इति यङ् । यङोऽचि च (पा २-४-७४) इति तस्य लुक् । प्रत्ययलक्षणेन सन्यङोः (पा ६-१-९) इति द्विर्भावः । हलादिशेषः । गुणो यङ्लुकोः (पा ७-४-८२) इत्यभ्यासस्य गुणः । इण् कोः (पा ८-३-५७) इति षत्वम् । सनादित्वाद्धातुसंज्ञायां लटः शतृ । कर्तरि शप् । आदादिवच्चेति वचनात्तस्य लुक् । नाभ्यस्ताच्छतुः (पा ७-१-७८) इति नुम् प्रतिषेधः । प्रत्ययस्वरे प्राप्तेऽभ्यस्तानामादिरित्याद्युदात्तत्वम् । गोभिः । सावेका च इति भिस उदात्तत्वे प्राप्ते न गोश्वन्निति प्रतिषेधः । चर्कृषत् । कृष विलेखने । यङ् लुकि द्विर्भावहलादिशेषचर्त्वानि । रुग्रिकौ च लुकि (पा ७-४-९१) इत्यभ्यासस्य रुगागमः । अस्माद्यङ् लुगंताल्लेटस्तिप् । इतश्च लोपः । लेटोऽडाटावित्यडागमः । अदिप्रभृतिध्यः शप इति शपो लुक् । लघूपधगुणे प्राप्ते नाभ्यस्तस्याचि पिति (पा ७-३-८३) इति निषेधः । तिङ्ङतिङ इति निघातः ॥ ११ ॥ १५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १०