मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् २३, ऋक् २१

संहिता

आपः॑ पृणी॒त भे॑ष॒जं वरू॑थं त॒न्वे॒३॒॑ मम॑ ।
ज्योक्च॒ सूर्यं॑ दृ॒शे ॥

पदपाठः

आपः॑ । पृ॒णी॒त । भे॒ष॒जम् । वरू॑थम् । त॒न्वे॑ । मम॑ ।
ज्योक् । च॒ । सूर्य॑म् । दृ॒शे ॥

सायणभाष्यम्

हे आपो मम तन्वे शरीरार्थं वरूथं रोगनिवारकं भेषजमौषधं पृणीत । पूरयत । किंच ज्योक् चिरं सूर्यं दृशे द्रष्टुं निरोगा वयं शक्नुवामेति शेषः ॥ पृणीत । पृ पालनपूरणयोः । लोण्मध्यमबहुवचनं थ । तस्य तस्थस्थमिपामिति तादेशः । क्र्यादिभ्यः श्ना । प्वादीनां ह्रस्व इति ह्रस्वः । ई हल्यघोरितीत्वम् । ऋवर्णाच्चेति णत्वम् । सति शिष्टस्वरबलीयस्त्वमन्यत्र विकरणेभ्य इति तिङः स्वरः शिष्यते । आप इत्यस्यामंत्रितं पूर्वमविद्यमानवदित्यविद्यमानवत्त्वे पादादित्वान्निघाताभावः । वरूथम् । वृञ् वरणे । जृवृञ् भ्यामूथन् (उ २-६) नित्त्वादाद्युदात्तः । तन्वे । ङिति ह्रस्वश्च (पा १-४-६) इति नदीसंज्ञा पाक्षिकीत्याडागमाभावः । उदात्तयणो हल्पूर्वादिति विभक्त्युदात्तत्वे प्राप्ते । व्यत्ययेनोदात्त स्वरितयोरिति स्वरितत्वम् । दृशे । दृशे विृख्ये च (पा ३-४-११) इति तुमर्थे निपात्यते ॥ २१ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १२