मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् २३, ऋक् २२

संहिता

इ॒दमा॑प॒ः प्र व॑हत॒ यत्किं च॑ दुरि॒तं मयि॑ ।
यद्वा॒हम॑भिदु॒द्रोह॒ यद्वा॑ शे॒प उ॒तानृ॑तम् ॥

पदपाठः

इ॒दम् । आ॒पः॒ । प्र । व॒ह॒त॒ । यत् । किम् । च॒ । दुः॒ऽइ॒तम् । मयि॑ ।
यत् । वा॒ । अ॒हम् । अ॒भि॒ऽदु॒द्रोह॑ । यत् । वा॒ । शे॒पे । उ॒त । अनृ॑तम् ॥

सायणभाष्यम्

पशौ मार्जन इदमापः प्र वहतेत्येषा विनियुक्ता । हुतायां वपायामिति खंडे सूत्रितम् । इदमापः प्रवहत (आ ३-५) इति ॥ एषैवावभृथेष्टौ स्नाने विनियुक्ता । पत्नीसंयाजैश्चरित्वेति खंड इदमापः प्रवहत सुमित्र्या न आप ओषधयः संतु (आ ६-१३) इति सूत्रितं ॥

मयि यजमाने यत्किं च दुरितमज्ञानान्निष्टन्नम् । वाथवाहं यजमाजनं शप्तवानस्मीति यदस्ति । उतापि चानृतमुक्तवानिति यदस्ति । तदिदं सर्वमपराधजातं प्रवहत । मत्तोऽपनीय प्रवाहेणान्यतो नयत ॥ मयि । मपर्यंतस्य त्वमावेकवचन इति मादेशे कृतेऽतो गुण इति पररूपे च सति योऽचेति दकारस्य यकारादेशः । एकादेशस्वरेण मकारात्परस्याकारस्योदात्तत्वम् । दुद्रोह । द्रुह जिघांसायाम् । णलि गुणे द्विर्वचन ह्रस्व हलादिशेषाः । लितीति प्रत्ययात्पूर्वस्योदात्तत्वम् । यद्वृत्तयोगान्निघाताभावः । शेषे । शप आक्रोशे । लिट व्यत्ययेन तङ् । उत्तमैकवचनमिट् । टेरेत्वम् । अत एकहल्मध्ये (पा ६-४-१२०) इत्येत्वाभ्यासलोपौ । प्रत्ययस्वरेणांतोदात्तत्वम् । पूर्ववन्निघाताभावः ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १२